ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्


आवर्तः ३१६ – निर्गुणोपासनानधिकारिणा कर्तव्यम्

यो *१ निर्गुणोपासनेऽनधिकारी स *२ सगुणमीश्वरं सदा मनसि धारयेत्। सगुणोपासनेऽशक्तः *३ निष्कामतया नित्यनैमित्तिकानि कर्माण्यनुतिष्ठन्नीश्वरे समर्पयेत्। कर्मविरामकाले ईश्वरमपि भजेत्। निष्कामकर्म कर्तुमप्यशक्तः सकामः शास्त्रोक्तशुभकर्माण्यनुतिष्ठेत्। तत्राप्यशक्तो यः स शठः पुनः पुनर्जन्ममरणप्रवाहे पतति।

*१. वेदान्तश्रवणमननरूपविचारे प्रवृत्तो जिज्ञासुस्तं विहाय नान्यत् साधनमनुतिष्ठेत्। वेदान्तविचारशीलः पुरुषो यदि विचारं परित्यज्यान्यत्र प्रसज्यते स आरूढपतितो भवति। अथवा ‘करस्थं मधु सन्त्यज्य कूर्परं लेढि मूढधीः’ इति न्यायस्य विषयो भवति। यः करस्थं मधु प्रमादात्परिस्राव्य मधुना लिप्तं कूर्परं लेढि पश्चात्, तस्य तुल्यो भवति वेदान्तविचारं परित्यज्यान्यत्र प्रसक्तः पुरुषः। तस्माद्वेदान्तविचारशीलः पुरुषः सुदृढबोधोदयपर्यन्तं विचारमेव कुर्यात्। यस्य विचारे न प्रवृत्तिर्भवति स निर्गुणोपासनं कुर्यात्। तत्राप्यशक्तेन ‘उपवासात् वरा भिक्षा’ इति न्यायेन । सगुणोपासनादिकं कर्तव्यं भवेत्।

*२. मायाविशिष्टचैतन्यरूपं कारणं ब्रह्म सगुणेश्वर इत्युच्यते। अथवा कारणब्रह्मोपलक्षणभूता हिरण्यगर्भवैश्वानरहरिहरगौरीगणेशार्कादयः कार्यब्रह्मरूपा अपि सगुणेश्वरत्वेन ध्येयाः। अथवा तेषां हरिहरादीनां प्रतीकभूतसालग्रामादयः, तेषां प्रतिमाविशे। षाश्च सगुणेश्वरत्वेनोपास्याः। पूर्वोक्तेषूपास्येषूत्तरोत्तरापेक्षया पूर्वपूर्वस्योपासनं प्रशस्तं भवति। उत्तरत्र सप्तमतरङ्गे वक्ष्यमाणक्रमेण मायाविशिष्टचैतन्यरूपं कारणं ब्रह्मैवेश्वरशब्दस्य मुख्यार्थः। तदेवोपास्यम्। तथापि “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्” (श्वे. १०) इति श्रुत्या मायाविशिष्टचैतन्यादन्यस्य वस्तुनोऽभावात् श्रीविद्यारण्यस्वामिनः सर्वमताविरोधेन चित्रदीपे ईश्वरस्वरूपमवर्णयन्। तदनुसारेण हिरण्यगर्भादिसर्वमुपास्यवस्तु ईश्वर एवेत्यभिप्रायः।

*३. फलाभिसन्धिमन्तरा स्वस्ववर्णाश्रमोचितानि कर्माणि केवलमीश्वरार्पणबुद्ध्या । कुर्यात्। कर्मोपरमकाले नामोच्चारणादिरूपमीश्वरभजनं च कुर्यात्। फलेच्छां विनानुष्ठितमीश्वरे समर्पितं च विहितं कर्मेश्वरप्रसादहेतुर्भवति। अतो निष्कामकर्मानुष्ठानमीश्वरभजनरूपमेव भवति।

ओङ्कारार्थविचारेण कृतार्थोऽभूददृष्टिकः।
एतत्तरङ्गपठनात् सुदृष्टिं कुरुते गुरुः॥

॥इति श्रीवासुदेवब्रह्मेन्द्रसरस्वतीविरचिते संस्कृतविचारसागरे मध्यमाधिकारिणः साधनवर्णनं नाम पञ्चमस्तरङ्गः॥