- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः
आवर्तः ३१५ – ओङ्कारस्य महावाक्यानां चार्थैकत्वम्
यद्यपि महावाक्यविवेकमन्तरा ज्ञानं न सिद्ध्यतीति सिद्धान्तस्तथापि ओङ्कारविवेकस्य महावाक्यविवेकरूपत्वादोङ्कारविवेकेनापि ज्ञानमुदियादेव। तथा हि, स्थूलोपाधिसहितचेतनोऽकारवाच्यार्थः; स्थूलोपाधिरहितकेवलचेतनोऽकारलक्ष्यार्थः। सूक्ष्मोपाधिसहितचेतन उकारवाच्यार्थः। सूक्ष्मोपाधिरहितचेतन उकारलक्ष्यार्थः। कारणोपाधिसहितचेतनो मकारवाच्यार्थः। कारणोपाधिरहितचेतनो मकारलक्ष्यार्थः। इत्थमुपाधिसहिता विश्वादयोऽकारादिमात्राणां वाच्यार्थाः। उपाधिरहितः केवलं चेतनः सकलमात्राणां लक्ष्यार्थः। तथैव नामरूपात्मकाखिलोपाधिसहितचेतन ओङ्कारवाच्यार्थः। नामरूपात्मकसकलोपाधिरहितकेवलचेतन ओङ्कारलक्ष्यार्थः। इत्थमोङ्कारस्य महावाक्यानां चार्थ एक एव भवति। तस्मादोङ्कारविवेकेनैवाद्वैतात्मज्ञानं जायते। इत्थमदृष्टिराचार्यवाक्यं श्रुत्वा उपासनायां प्रवृत्तो ज्ञानद्वारा परमपुरुषार्थमोक्षमलभत।