- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः
आवर्तः ३१४ – हिरण्यगर्भलोकवासिनोऽसङ्गनिर्विकारब्रह्मरूपतया आत्मनो भाने कारणम्
पूर्वमोङ्कारस्य ब्रह्मरूपतयोपासनकाले ओङ्कारमात्राणामर्थो वक्ष्यमाणरीत्या चिन्तितः स्थूलोपाधिविशिष्टविराडात्मकविश्वचैतन्यमकाररूपप्रथममात्राया वाच्यार्थः। सूक्ष्मोपाधिविशिष्टहिरण्यगर्भात्मकतैजसचैतन्यमुकाररूपद्वितीयमात्राया वाच्यार्थः। कारणोपाधिविशिष्टेश्वरात्मकप्राज्ञचैतन्यं मकाररूपतृतीयमात्राया वाच्यार्थः। एवं प्राक्चिन्तितार्थानुस्मरणमुपासकस्य ब्रह्मलोके जायते। सत्त्वगुणप्रभावाच्च वक्ष्यमाणप्रकारेण विवेकपूर्वकं विचारयति चोपासकः (१) स्थूलोपाधिदृष्ट्या खलु शुद्धे चैतन्ये विराट्लविश्वत्वप्रतीतिरभूत्। तत्र समष्टिस्थूलदृष्ट्या विराट्लम्, व्यष्टिस्थूलदृष्ट्या विश्वत्वं चाभात्। समष्टिव्यष्ट्यात्मकस्थूलदृष्टिविरहे विराट्लविश्वत्वे न प्रतीयेयाताम्। किन्तु शुद्धं चैतन्यमात्रं भासेत। तस्मात् स्थूलोपाधिसहितविराडात्मकविश्वोऽकारवाच्यार्थः। (२) तथैव सूक्ष्मोपाधिसहितहिरण्यगर्भात्मकतैजस उकारवाच्यार्थः। समष्टिसूक्ष्मोपाधिदृष्ट्या शुद्धचैतन्ये हिरण्यगर्भत्वम्, व्यष्टिसूक्ष्मोपाधिदृष्ट्या तैजसत्वं चाभात्। सूक्ष्मोपाधिदृष्टिविरहे तु हिरण्यगर्भत्वं तैजसत्वं वा न भायात्। किन्तु शुद्धं चैतन्यमात्रं भासे। (३) तथैव कारणोपाधिसहितेश्वरात्मा प्राज्ञो मकारवाच्यार्थः। समष्ट्यज्ञानोपाधिदृष्ट्या शुद्धचैतन्ये ईश्वरत्वमभात्, व्यष्ट्यज्ञानोपाधिदृष्ट्या प्राज्ञत्वमभात्। अज्ञानोपाधिदृष्टिविरहे तु ईश्वरत्वं प्राज्ञत्वं वा न भासेत। किन्तु केवलचैतन्यमात्रं प्रतीयेत।
किञ्च यत्र यद्वस्त्वन्यदृष्ट्या प्रतीयते तत्र तद्वस्तु परमार्थतो नास्ति। यस्य वस्तुनो यद्रूपमन्यदृष्टिं विना स्वत एव प्रतीयते तदेव तस्य पारमार्थिकं स्वरूपम्। यथा कस्मिंश्चित्पुरुषे पितृदृष्ट्या पुत्रत्वम्, पितामहदृष्ट्या पौत्रत्वं च प्रतीयमानं न तस्य परमार्थधर्मः, किन्तु पुरुषत्वमेव तस्य परमार्थधर्मः। तथा स्थूलसूक्ष्मकारणोपाधिदृष्ट्या भासमानविश्वत्वतैजसत्वप्राज्ञत्वादयो न परमार्थधर्माः, परन्तु मिथ्यैव ते। चैतन्यमात्रं परमार्थसत्यम्।
तच्च चैतन्यं समस्तभेदशून्यम्। विराजो विश्वस्य च भेद औपाधिक एव। तयोरुभयोः स्थूलोपाधिकत्वेऽपि समष्ट्युपाधिको विराट्। विश्वस्तु व्यष्ट्युपाधिकः। समष्टिव्यष्ट्युपाधिप्रयुक्तभेदवत्त्वेऽपि विराड्विश्वयोः स्वरूपतो नास्ति भेदः। तथैव हिरण्यगर्भतैजसयोः समष्टिव्यष्ट्युपाधिप्रयुक्तभेदवत्त्वेऽपि स्वरूपतो न भेदोऽस्ति। एवमेवेश्वरप्राज्ञयोः समष्टिव्यष्ट्युपाधिनिबन्धन एव भेदो न स्वरूपतः। इत्थं च प्राज्ञेनेश्वरस्य, तैजसेन हिरयगर्भस्य, विश्वेन विराजश्चाभेदः सिद्धः। एवमेव स्थूलोपाधिकस्य सूक्ष्मोपाधिकेन वा कारणोपाधिकेन वा न भेदगन्धोऽप्यस्ति। यतः स्थूलसूक्ष्मकारणरूपोपाधिदृष्टिपरित्यागे चैतन्यस्वरूपे न कोऽपि भेदोऽस्ति।
किञ्चानात्मनः सकाशादपि चैतन्यस्य नास्ति भेदः। यतोऽनात्मभूतदेहादिप्रपञ्चोऽविद्यादशायामेव भाति। न परमार्थतः। तस्मादनात्मप्रपञ्चस्यापि चैतन्येन सह भेदोऽसङ्गत एव। इत्थं सर्वभेदशून्यासङ्गनिर्विकारनित्यमुक्तपरब्रह्मस्वरूपः प्रत्यगात्मा ओङ्कारलक्ष्यार्थत्वेन स्वयंप्रकाशतया ब्रह्मलोके उपासकस्य भासते। तस्माद्धिरण्यगर्भलोके वसत उपासकस्य न पुनः संसारगतिः। किन्तु स ज्ञानेन विदेहकैवल्यमेवाप्नोति कार्यब्रह्मणोऽवसानसमये।