- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः
आवर्तः ३१३ – उत्तरायणमार्गेण ब्रह्मलोकं गतानां पुनः संसारप्राप्तिः, ज्ञानद्वारा मोक्षप्राप्तिश्च
पूर्वोक्तो मार्ग उत्तरायणमार्गे देवयानमार्गोऽर्चिरादिमार्ग इति चोच्यते। तेन देवमार्गेण ब्रह्मलोकं गत उपासकः पुनः संसारं न प्रतिपद्यते, किन्तु तत्रैव ज्ञानोत्पत्त्या स विदेहमुक्तिमाप्नोति। तत्र ज्ञानसाधनीभूतगुरूपदेशाद्यपेक्षा नास्ति। ब्रह्मलोके गुरूपदेशादिसाधनं विनैव ज्ञानोत्पत्तिर्भवति। तत्र च कारणं ब्रह्मलोके रजस्तमोगुणयोर्लेशतोऽप्यभावः। तस्य लोकस्य केवलसत्त्वगुणप्रधानता च। तमोगुणाभावात् जडत्वालस्यादिकं नास्ति। रजोगुणाभावात् तत्कार्यभूतकामक्रोधादिरूपविक्षेपोऽपि नास्ति। एवं तमोरजसोरभावादावरणविक्षेपयोरभावे केवलसत्त्वगुणप्रधाने ब्रह्मलोके सत्त्वगुणकार्यज्ञानरूपप्रकाशस्तत्र लोके मुख्यः। “एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते” (छा. ४.१५.५) “न च पुनरावर्तते “ (छा. ८.१५.१) “तेषां न पुनरावृत्तिः” (बृ. ६.२.१५) “ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः” “सत्त्वात् सञ्जायते ज्ञानम्” (भ.गी. १४.१७) इत्यादिश्रुतिस्मृतिभ्यः।