-
२२६-३१६
पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः
आवर्तः ३१२ – अहंग्रहध्यानादेव ब्रह्मलोकप्राप्तिरिति नियमः
ओङ्काररूपब्रह्मोपासकस्य ब्रह्मलोकप्राप्तिद्वारा मोक्षलाभः फलं तथोपनिषत्सूक्तानामितरेषामपि ब्रह्मोपासनानामिदमेव फलम्। किन्तु अहङ्ग्रहोपासनं विनेतरोपासनेन न ब्रह्मलोकोऽवाप्यत इति सूत्रकारैर्भाष्यकारैश्च ब्रह्मसूत्रेषु भाष्यादिषु च चतुर्थाध्याये वर्णितम्।
नार्मदबाणानां शिवरूपेण, सालग्रामशिलानां विष्णुरूपेण च ध्यानं तु प्रतीकध्यानमेव। नाहङ्ग्रहध्यानम्। एवमेव “मनो ब्रह्मेत्युपासीत” (छा. ३.१८.१) “आदित्यो ब्रह्मेत्यादेशः (छा. ३.१९.१) इत्यादिश्रुत्युक्तोपासनमपि प्रतीकध्यानमेव। नाहङ्ग्रहध्यानम्। तेषां तत्तत्प्रकरणे पृथक् फलश्रवणात्तैर्न ब्रह्मलोकोऽवाप्यते। सगुणस्याथवा निर्गुणस्य ब्रह्मणः स्वात्माभेदेन चिन्तनमहङ्ग्रहध्यानमित्युच्यते। तेनैव ध्यानेन ब्रह्मलोकोऽवाप्येत।