- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः
आवर्तः ३११ – सायुज्यभुक्तिवर्णनम्
यद्यपि पूर्वोक्तरीत्या ओङ्कारोपासनं शुद्धब्रह्मरूपेणोक्तम्, शुद्धब्रह्मोपासकस्य शुद्धब्रह्मप्राप्तिरेवोचिता। “यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति” (छा. ३-१४-१) इति श्रुतेः।
यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम्।
तं तमेवैति कौन्तेय सदा तद्भावभावितः॥ भ.गी. ८.६॥
इति स्मृतेर्न्यायाच्च। तथापि शुद्धब्रह्मप्राप्तेर्वेदान्तप्रमाणजन्यद्वैतमिथ्यात्वपूर्वकाद्वैतज्ञानमात्रसाध्यत्वात् भोगेच्छारूपप्रतिबन्धसत्त्वाच्च यस्य ज्ञानं न सञ्जातं तस्य कार्यब्रह्मप्राप्तिरूपसायुज्यमुक्तिरेव सिद्ध्यति। ब्रह्मलोकं गतस्योपासकस्य हिरण्यगर्भस्य मानविभूत्यैश्वर्यादिकं सिद्ध्यति। सत्यसङ्कल्पत्वमिच्छानुरूपं शरीरं सङ्कल्पमात्रेणाभीष्टभोगलाभश्च सिद्ध्यति। युगपदेव नानाशरीरैर्नानाभोगानुभवेच्छायां सत्यां सङ्कल्पमात्रादेव क्षणेनैव नानाविचित्रशरीराणि पृथक् पृथक् भोगोपकरणसिद्धिश्च भवति। किं बहुना । यद्यत्सङ्कल्पयति तत्सर्वमप्रत्यूहेन सद्यः सम्पद्यते। परन्तु जगत्सृष्टिपालनसंहरणव्यतिरिक्ताः सर्वा विभूतयो हिरण्यगर्भसमाः सिद्ध्यन्ति। अनेकेश्वरत्वे जगत उन्मथप्रसङ्गात् सृष्ट्यादित्रिकातिरिक्तसकलैश्वर्याण्युपासकस्य सिद्ध्यन्ति। इयमेव *१ सायुज्यमुक्तिरिति कथ्यते। एवमुपासको हिरण्यगर्भसमः सन् चिरकालं सङ्कल्पमात्रसिद्धान् नाना दिव्यभोगान् भुञ्जानः प्रलयकाले हिरण्यगर्भलोकस्यावसानकाले समुदिताद्वैतात्मज्ञानो विदेहमोक्षं लभते।
ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्॥ कू. पु. १२.२६९॥
इत्यादिवचनात्।
*१. राज्ञः प्रजानां राज्य इव ईश्वरलोके वासमात्रं सालोक्यमुक्तिः। ततोऽपि श्रेष्ठा राजसेवकवदीश्वरसमीपे वासरूपा सामीप्यमुक्तिः। ततोऽप्युत्कृष्टा राजानुजवदीश्वरसमानरूपप्राप्तिः सारूप्यमुक्तिः। ततोऽप्यतिशयिता राज्ञो ज्येष्ठपुत्रयुवराजवदीश्वरसमानसत्यसङ्कल्पाद्यैश्वर्यप्राप्तिः सार्ह्यमुक्तिरित्थमुत्तरोत्तरमुत्कृष्टा चतुर्विधा मुक्तिः शास्त्रेषु कथिता। तत्र चतुर्थी सार्घ्यमुक्तिः श्रेष्ठा। सार्ह्यमुक्तिरेव सायुज्यमुक्तिरित्युिच्यते।