- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः
आवर्तः ३१० – ब्रह्मलोकमार्गः
ब्रह्मलोकगमनमार्गक्रमस्त्वेवम् ब्रह्मोपासनतत्परः पुरुषो यदा म्रियते तदा तस्यान्तःकरणमिन्द्रियाणि च *१ सम्मूर्च्छितानि भवन्ति। ततः स न किञ्चिदपि बोद्धुं कर्तुं वा शक्नोति। तथापि यमदूतास्तस्य लिङ्गशरीरं नेतुं न तदन्तिकमागच्छन्ति। किन्त्वग्न्यभिमानिनी देवता तस्य मरणसमये तमुपासकं शरीराद्वियोज्य स्वलोकं नयति। ततोऽग्निलोकात्तमुपासकमहरभिमानिनी देवता स्वलोकं नयति। ततः शुक्लपक्षाभिमानिनी देवता तमुपासकं स्वलोकं नयति। तत उत्तरायणाभिमानिनी देवता तमुपासकं स्वलोकं नयति। ततः संवत्सराभिमानिनी देवता तमुपासकं स्वलोकं नयति। ततो देवलोकाभिमानिनी देवता तमुपासकं स्वलोकं नयति। ततो वाय्वभिमानिनी देवता तमुपासकं स्वलोकं नयति। ततः सूर्याभिमानिनी देवता तमुपासकं स्वलोकं नयति। ततश्चन्द्राभिमानिनी देवता तमुपासकं स्वलोकं नयति। ततो विद्युदभिमानिनी देवता तमुपासकं स्वलोकं नयति।
*१. मरणसमये जीवापेतस्थूलदेहाल्लिङ्गशरीरं वियुक्तं भवति। तदा चैतन्याभावात्सम्मूर्च्छितान्युपासकस्यान्तः करणमिन्द्रियाणि च स्वतः न किञ्चिदपि ज्ञातुं शक्नुवन्ति। क्रियाशक्तियुक्तप्राणोऽपि स्वरूपत एवाचेतनत्वेनेच्छाभावान्न क्वचिदपि गन्तुं शक्नोति।
तत्र विद्युल्लोके हिरण्यगर्भाज्ञया हिरण्यगर्भलोकवासी हिरण्यगर्भसरूपश्च कश्चनामानवो दिव्यपुरुषस्तमुपासकं नेतुमागच्छति। स चामानवः पुरुषस्तमुपासकं विद्युल्लोकाद्वरुणलोकं नयति। विद्युदभिमानिनी देवता च वरुणलोकपर्यन्तं तमनुगच्छति। ततोऽप्यमानव एव पुरुषस्तमुपासकं वरुणलोकादिन्द्रलोकं नयति। वरुणदेवता चेन्द्रलोकपर्यन्तं तमनुसरति। ततोऽपि स दिव्यः पुरुष एव तमुपासकमिन्द्रलोकात्प्रजापतिलोकं नयति। इन्द्रश्च प्रजापतिलोकपर्यन्तं तमनुसरति। प्रजापतेर्ब्रह्मलोकगमनसामर्थ्याभावादमानवपुरुषोऽसहकृत एव तमुपासकं प्रजापतिलोकात् ब्रह्मलोकं नयति। ब्रह्मलोकस्याधिपतिर्हिरण्यगर्भः। समष्टिसूक्ष्माभिमानी चेतनो हिरण्यगर्भ इति कीर्त्यते। तमेव हिरण्यगर्भमपरब्रह्मेति कार्यब्रह्मेति च वदन्ति। कार्यब्रह्माधिष्ठित एव लोको ब्रह्मलोक इत्युच्यते।