ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्

- ३१७-४६३ कनिष्ठाधिकारिणस्तर्कदृष्टेः प्रश्नः

आवर्तः ३१८ – स्वप्नदृष्टान्ते जाग्रत्पदार्थस्य मिथ्यात्वं न भवति इति तर्कदृष्टिः पृच्छति

पूर्वमत्यन्तमज्ञातो यः पदार्थस्तस्य ज्ञानं स्वप्ने न भवति। किन्तु जाग्रति यद्विषयकानुभवोऽभूत् तद्विषयकं *२ स्मरणं स्वप्ने जायते। तथा च स्मृतिविषयजाग्रत्पदार्थानां सत्यत्वात् स्वप्ने जायमानं तद्विषयकस्मृतिज्ञानमपि सत्यमेव। तस्मात् स्वप्नदृष्टान्तेन जाग्रत्पदार्थानां मिथ्यात्वकथनं न युज्यत एव।

*२. स्वप्नो जाग्रत्यनुभूतपदार्थविषयकस्मृतिरूपमानसविपर्यास इति कथयतां । नैयायिकादीनां मतरीत्यायं प्रश्नः।