ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः


आवर्तः ३०७ – ओङ्कारोपासने परमहंसस्यैवाधिकारः

पूर्वोक्तरीत्या ओङ्कारस्वरूपं यो जानाति स मुनिः। मननान्मुनिरित्युच्यते। एवमोङ्कारस्य चिन्तनं मननरूपं भवति। यस्यैवमोङ्कारचिन्तनरूपमननं नास्ति न स मुनिः। इत्थं माण्डूक्योपनिषदुक्तरीत्या सङ्क्षेपेणोङ्कारचिन्तनं वर्णितम्। नृसिंहतापिन्याद्युपनिषत्स्वप्योङ्कारोपासनक्रमो वर्णितः (नृ. उ. ५)। इदं चोङ्कारचिन्तनं परमहंसानामेव गोप्यं धनम्। बहिर्मुखस्य नास्त्यत्राधिकारः। अत्यन्तान्तर्मुखस्यैवात्राधिकारः। गृहस्थानां नास्त्यत्राधिकारः। दारापत्यवित्तादिपरिग्रहरहितः परमहंस एवात्राधिकारी।