ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः

- २९६-३१५ ओङ्कारध्यानफलम्

आवर्तः ३०८ – ओङ्कारध्यानं ज्ञानद्वारा मोक्षफलकम्

उक्तरीत्या ब्रह्मरूपेणोङ्कारोपासकस्य ज्ञानद्वारा मोक्षः सिद्ध्यति। परन्तु यस्य पुनरैहिकभोगे आमुष्मिकब्रह्मलोकभोगे वेच्छास्ति तीव्रवैराग्यं च नास्ति, तथापि हठादिच्छां निरुध्य दारापत्यधनादिकं परित्यज्य परमहंसगुरूपदेशेन यावज्जीवमोङ्काररूपं ब्रह्माभिध्यायेत् तस्य भोगेच्छा ज्ञानप्रतिबन्धिका भवति। तस्मात्तस्येह न ज्ञानं जायते। किन्तु स ध्यानानुष्ठानपूर्वकमेवैतच्छरीरं त्यक्त्वा शरीरान्तरमादत्ते। ऐहिकभोगेच्छानिरोधपूर्वकं ध्यानानुष्ठानकारणात्स मनुष्यलोके सतां शुचीनां श्रीमतां कुलेऽभिजायते। तत्र पूर्वजन्मेच्छाविषयभूतान् सकलान् भोगान् भुक्त्वा पूर्वजन्मानुष्ठितध्यानसंस्कारबलाद्भूयोऽपि ध्याने वा विचारे वा प्रवर्तते। ततो ज्ञानम्, ज्ञानान्मोक्षं च लभते।