ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः


आवर्तः ३०६ – लयचिन्तनानुवादः

एकैकमात्रारूपविश्वादीनामन्यमात्रारूपता लयचिन्तनमिदानीं निरूप्यते। विश्वात्मकोऽकारः तैजसात्मकादुकारान्न भिन्नः। किन्तूकाररूप एव। एवं चिन्तनमेव लय इत्युच्यते। एवमेवेतरास्वपि मात्रासूह्यम्। यस्मिन्नुकारेऽकारस्य लयः कृतस्तं तैजसात्मकमुकारं प्राज्ञात्मकमकारे लीनं कुर्यात्। प्राज्ञरूपं मकारमपि तुरीयरूपे ओङ्कारस्य परमार्थस्वरूपे अमात्रे लीनं कुर्यात्। यतः स्थूलस्योत्पत्तिः सूक्ष्माद्भवति स्थूलस्य लयश्च सूक्ष्मे भवति, तस्माद्विश्वरूपोऽकारस्तैजसरूपे उकारे लीयेत। सूक्ष्मस्योत्पत्तिः कारणाद्भवति, सूक्ष्मस्य लयश्च कारणे भवति। तस्मात्तैजसरूप उकारः तत्कारणे प्राज्ञरूपे मकारे लीयेत। अत्र विश्वादिग्रहणेन स्वस्वत्रिपुट्या सह समष्टिविराडादयोऽपि गृहीता भवन्ति। यस्मिन् प्राज्ञरूपे मकारे उकारस्य लयः कृतः तं मकारं तुरीयरूपे ओङ्कारस्य परमार्थरूपे अमात्रे लीनं कुर्यात्। ओङ्कारपरमार्थस्वरूपस्य तुरीयस्य चाभेदोऽस्ति। तच्च तुरीयं ब्रह्मैव। तस्मिन् शुद्धे ब्रह्मणीश्वरः प्राज्ञश्च कल्पितौ। यद्यस्मिन् कल्पितं तत्तत्स्वरूपमिति न्यायः। तस्मादीश्वरसहितप्राज्ञरूपमकारस्यामात्रे लयो युज्यत एव। इत्थं यस्मिन् ओङ्कारस्य परमार्थस्वरूपे अमात्रे सर्वेषां प्रविलयः कृतः स एवाहमस्मि’ इत्यैकाग्र्येणानवरतं चिन्तयेत्। निखिलचराचरप्रपञ्चात्मकासङ्गाद्वयासंसारिनित्यमुक्तनिर्भयब्रह्मरूपो य ओङ्कारस्तस्य यत् परमार्थस्वरूपं ‘तदेवाहमस्मि’ इत्यादरेण नैरन्तर्येण च दीर्घकालं यश्चिन्तयति तस्य ज्ञानमुदेति। ततो ज्ञानद्वारा मुक्तिरूपफलमपि सिद्ध्यति। तदेवमोङ्कारस्य निर्गुणोपासनं सर्वोपासनेभ्यः श्रष्ठम्।