ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः
- २९८-३०५ ब्रह्मस्वरूपस्योङ्कारस्यात्मनश्चाभेदः


आवर्तः ३०५ – द्विस्वरूपस्यात्मनो द्विस्वरूपेणोङ्कारेणाभेदं आत्मपादानामोङ्कारमात्राणां चाभेदं चिन्तयेत्

इत्थं परमार्थरूपमपरमार्थरूपमित्यात्मनो द्विविधं स्वरूपमुक्तम्। तत्र त्रयः पादा अपरमार्थस्वरूपम्। तुरीयः पादः परमार्थस्वरूपम्। आत्मन इवोङ्कारस्यापि स्वरूपद्वयमस्ति। अकारोकारमकारात्मकमात्रात्रयरूपाण्यक्षराणि अपरमार्थस्वरूपम्। मात्रात्रयव्यापकम्, अस्तिभातिप्रियरूपमधिष्ठानचैतन्यं परमार्थस्वरूपम्। ओङ्कारस्य परमार्थस्वरूपं श्रुतौ ‘अमात्रः” इति शब्देन व्यपदिश्यते। “अमात्रश्चतुर्थोऽव्यवहार्यः” (मा. आ. १२) इति।

यतस्तस्मिन् परमार्थस्वरूपे मात्राणां विभागो नास्ति तस्मात्तदमात्रमित्युच्यते। इत्थं स्वरूपद्वयवत ओङ्कारस्य स्वरूपद्वयवता आत्मना सहाभेदं जानीयात्।

(१) व्यष्टिसमष्टिस्थूलप्रपञ्चसहितयोर्विश्वविराजोरकारेणाभेदं जानीयात्। आत्मनः पादेषु विश्वः प्रथमः। ओङ्कारस्य मात्रासु अकारः प्रथमा मात्रा। अतस्तयोरैक्यं विद्यात्। (२) सूक्ष्मप्रपञ्चसहितहिरण्यगर्भात्मकतैजसमुकाररूपेण जानीयात्। आत्मनः पादेषु तैजसो द्वितीयः। ओङ्कारस्य मात्रासु उकारो द्वितीया मात्रा। तस्मात्तयोरैक्यं विद्यात्। (३) कारणोपाधिसहितेश्वररूपं प्राज्ञं मकाररूपेण विद्यात्। आत्मनः पादेष्वीश्वरस्वरूपः प्राज्ञस्तृतीयः। ओङ्कारमात्रासु मकारस्तृतीया मात्रा। ततस्तयोरभेदं जानीयात्। आत्मनस्त्रिष्वपि पादेष्वनुगतं परमार्थरूपं तुरीयं ओङ्कारस्य तिसृष्वपि मात्रा - स्वनुगतात् ओङ्कारस्य परमार्थस्वरूपादमात्रादभिन्नतया जानीयात्। विश्वादिषु तुरीयोऽनुगतः। तथा अकारादिषु तिसृषु मात्रासु अमात्रोऽनुगतः। तस्मादोङ्कारस्य परमार्थस्वरूपममात्रं तुरीयं चाभिन्नं जानीयात्। अनया रीत्या आत्मपादानां त्रयाणां ओङ्कारमात्राणां तिसृणां चैकताचिन्तनरूपं लयचिन्तनं कुर्यात्।