ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः
- २९८-३०५ ब्रह्मस्वरूपस्योङ्कारस्यात्मनश्चाभेदः


आवर्तः ३०४ – विश्वादीनां त्रयाणामेकत्वं, तुरीयस्येश्वरसाक्षिणाऽभेदं च चिन्तयेत्

इत्थं विश्वादीनां त्रयाणां मिथो भेद उपाधिप्रयुक्त एव। विश्वस्य स्थूलं सूक्ष्ममज्ञानं चेति त्रयमप्युपाधिः, तैजसस्य सूक्ष्ममज्ञानं चेति द्वयमुपाधिः, प्राज्ञस्याज्ञानम् एकमेवोपाधिः। इत्थमुपाधीनामाधिक्यन्यूनत्वाभ्यां त्रयाणां भेदेऽपि वस्तुतः स्वरूपेण न भेदः। विश्वतैजसप्राज्ञेषु त्रिष्वनुगतं चैतन्यं परमार्थत उपाधित्रयासम्बद्धमवतिष्ठते। त्रयाणामुपाधीनामधिष्ठानं तुरीयम्। तद्धि न बहिष्प्रज्ञम्। नान्तः प्रज्ञम्। न प्रज्ञानघनम्। न कर्मेन्द्रियाणां ज्ञानेन्द्रियाणां वा विषयः। न बुद्धेर्विषयः। न कस्यापि शब्दस्य विषयः। एतादृशं तुरीयं परमात्मनश्चतुर्थपादात्मकेश्वरसाक्षिरूपशुद्धब्रह्मस्वरूपं जानीयात्।