- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः
- २९८-३०५ ब्रह्मस्वरूपस्योङ्कारस्यात्मनश्चाभेदः
आवर्तः ३०३ – प्राज्ञः, ईश्वरः, मकारः, इत्येतेषां अभेदचिन्तनम्
प्राज्ञमीश्वररूपं जानीयात्। प्राज्ञस्य कारणशरीरमुपाधिः। ईश्वरस्यापि कारणमेवोपाधिः। ईश्वरः प्राज्ञश्च पादेषु तृतीयौ। ओङ्कारस्य तृतीया मात्रा मकारः। त्रिष्वेतेषु तृतीयत्वस्य समानधर्मत्वात्तेषामैक्यं चिन्तयेत्। सोऽयं प्राज्ञः ‘प्रज्ञानघनः भवति। यस्मात् जाग्रत्स्वप्नयोर्यावन्ति ज्ञानानि स्थितानि तानि सर्वाणि सुषुप्तौ *१ घनीभवन्ति, अविद्यामात्ररूपतां भजन्तीति यावत्। तस्मात्प्राज्ञः ‘प्रज्ञानघनः’ इत्युच्यते। अयं प्राज्ञः ‘आनन्दभुक् इति श्रूयते। “आनन्दभुक् प्राज्ञः” (मा. आ. ५) यतोऽयं प्राज्ञोऽविद्यावृतमानन्दं भुङ्क्ते ततः ‘आनन्दभुक्’ इति व्यपदिश्यते। विश्वतैजसयोरिव प्राज्ञस्यापि भोगे त्रिपुटी वर्ण्यते चैतन्यप्रतिबिम्बसहिताविद्यावृत्तिरध्यात्मम्, अज्ञानावृतस्वरूपानन्दोऽधिभूतम्, ईश्वरोऽधिदैवमिति। इत्थं विश्वो बहिष्प्रज्ञः। तैजसोऽन्तः प्रज्ञः। प्राज्ञः प्रज्ञानघनश्च भवति।
*१. यथा तण्डुलकणा जलेन पिण्डीकृता एकीभवन्ति यथा वा वृष्ट्युदकबिन्दवो निम्नदेशं प्राप्य तडागादिरूपेणैकीभवन्ति। तथा जाग्रत्स्वप्नकालीननानाज्ञानानि सुषुप्ताविद्यायामेकीभवन्ति। तादृशाविद्याप्रतिबिम्बितचैतन्यरूपः प्राज्ञजीवोऽधिष्ठानकूटस्थसहितः प्रज्ञानघन इत्युच्यते।