ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः
- २९८-३०५ ब्रह्मस्वरूपस्योङ्कारस्यात्मनश्चाभेदः


आवर्तः ३०२ – तैजसः, हिरण्यगर्भः, उकारः, इत्येतेषामभेदचिन्तनम्

यथा विश्वविराजोरभेदस्तथा तैजसहिरण्यगर्भयोरभेदो ज्ञेयः। तैजसस्योपाधिः सूक्ष्मः। हिरण्यगर्भस्योपाधिरपि सूक्ष्मः। तस्मात्तयोरैक्यं बोध्यम्। तैजसहिरण्यगर्भयोरेकत्वं निश्चित्य ओङ्कारस्य द्वितीयमात्रया उकारेण सह तयोरभेदं चिन्तयेत्। आत्मनश्चतुर्षु पादेषु द्वितीयः पादस्तैजसः। ब्रह्मणो द्वितीयः पादो हिरण्यगर्भः। ओङ्कारमात्रासु द्वितीया मात्रा उकारः। द्वितीयत्वं त्रयाणामेषां समानधर्मः। तस्मात्त्रयाणामैक्यं चिन्तयेत्।