ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः
- २९८-३०५ ब्रह्मस्वरूपस्योङ्कारस्यात्मनश्चाभेदः


आवर्तः ३०१ – विश्वतैजसयोर्भेदः

विश्वस्योक्तानि सप्ताङ्गान्येकोनविंशतिमुखानि च तैजसस्यापि सन्तीत्यवगन्तव्यम्। किन्तु इयानस्ति भेदः – विश्वस्याङ्गानि मुखानि चेश्वरसृष्टानि। तैजसस्य त्विन्द्रियदेवताविषयरूपत्रिपुट्यः शिरआद्यङ्गानि च मनोमयानि। तैजसस्य भोगः सूक्ष्मः। भोगो नाम सुखदुःखाद्यनुभवः। यद्यप्यनुभवरूपे ज्ञाने स्थूलत्वसूक्ष्मत्वभेदो न संभवति। तथापि बाह्यशब्दादिविषयसंबन्धात्साक्षाज्जायमानसुखदुःखादिसाक्षात्कारः स्थूल इत्युच्यते। मानसशब्दादिसंबन्धाज्जायमानसुखदुःखादिसाक्षात्कारः सूक्ष्म इत्युच्यते। तथा च श्रुतिः – “स्थूलभुग्वैश्वानरः” (मा. आ. ३) “ प्रविविक्तभुक्तैजसः” (मा. आ. ४) इति। “विश्वो हि स्थूलभुङ्गित्यं तैजसः प्रविविक्तभुक्” (मा. आ. ५) इति च तैजसस्य भोगयोग्याः शब्दादयो मानसत्वात्सूक्ष्माः। तदपेक्षया विश्वस्य भोगयोग्याः शब्दादयो बाह्यत्वात्स्थूलाः। किञ्च विश्वो बहिष्प्रज्ञः। तैजसस्त्वन्तः प्रज्ञः। यतो विश्वस्यान्तःकरणवृत्तिरूपा प्रज्ञा बहिर्गच्छति। तैजसस्य प्रज्ञा न बहिर्गच्छति। तस्मात्तौ क्रमेण बहिष्प्रज्ञत्वेनान्तःप्रज्ञत्वेन च व्यपदिश्येते।