ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः
- २९८-३०५ ब्रह्मस्वरूपस्योङ्कारस्यात्मनश्चाभेदः


आवर्तः ३०० – विश्वः, विराट्, उकारमात्रा, इत्येतेषामभेदचिन्तनम्

विराजो विश्वस्य च यथाभेदस्तथा ओङ्कारप्रथममात्राया अकारस्य विराडूपविश्वेन सहाभेदोऽस्ति। तथा हि ब्रह्मणश्चतुर्षु पादेषु प्रथमः पादो विराट्। आत्मनश्चतुर्षु पादेषु प्रथमः पादो विश्वः। ओङ्कारस्य मात्रात्मकेषु चतुर्षु पादेषु प्रथमः पादोऽकारः। त्रयाणामेषामादित्वरूपधर्मसामान्यसत्त्वात् विश्वविराडकाराणामभेदं चिन्तयेत्। इत्थं विश्वस्य सप्ताङ्गान्येकोनविंशतिमुखानि च व्याख्यातानि।