ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः
- २९८-३०५ ब्रह्मस्वरूपस्योङ्कारस्यात्मनश्चाभेदः


आवर्तः २९९ – चतुर्दशत्रिपुट्यः

भोगसाधनेषु प्राणादिष्वेकोनविंशतिमुखेषु श्रोत्रादिदशेन्द्रियाणि अन्तःकरणचतुष्टयं चेति चतुर्दशमुखानि स्वस्वविषयाणां साहाय्यं स्वस्वदेवतानां च साहाय्यमपेक्षन्ते। देवताविषययोः साहाय्यमन्तरा केवलैरेतैश्चतुर्दशमुखैर्भोगो न संभवति। तस्मात्पञ्च प्राणाश्चतुर्दश त्रिपुट्यश्च विराडूपविश्वस्य मुखानीत्युच्यन्ते। मुखम्, देवता, विषयश्चेति त्रयाणां समूहस्य ‘त्रिपुटी’ इति नाम। सा च त्रिपुटी एवं वर्ण्यते (१) श्रोत्रेन्द्रियमध्यात्मम्, तद्विषयः शब्दोऽधिभूतम्, दिगभिमानिनी देवता अधिदैवम्। अत्र क्रियाशक्तिज्ञानशक्तिभ्यां युक्तानीन्द्रियाणि अन्तःकरणं चाध्यात्मम् इत्युच्यते। तेषां विषयोऽधिभूतम् इति कीर्त्यते। तेषां सहायभूता देवता अधिदैवम् इत्यभिधीयते। (२) त्वगिन्द्रियमध्यात्मम्, तद्विषयः स्पर्शोऽधिभूतम्, वाय्वभिमानिनी देवता अधिदैवम्। (३) नेत्रेन्द्रियमध्यात्मम्, रूपमधिभूतम्, सूर्योऽधिदैवम्। (४) रसनेन्द्रियमध्यात्मम्, रसोऽधिभूतम्, वरुणोऽधिदैवम्। (५) घ्राणेन्द्रियमध्यात्मम्, गन्धोऽधिभूतम्, *१ अश्विनीकुमारौ अधिदैवम्। अथवा पृथिव्यभिमानिनी देवता अधिदैवम्। (६) वागिन्द्रियमध्यात्मम्, *२ वक्तव्यम् अधिभूतम्, अग्निदेवता अधिदैवम्। (७) पाणीन्द्रियमध्यात्मम्, पदार्थग्रहणमधिभूतम् इन्द्रोऽधिदैवम्। (८) पादेन्द्रियमध्यात्मम्, गमनमधिभूतम्, विष्णुरधिदैवम्। (९) पायुरध्यात्मम्, मलविसर्जनमधिभूतम्, यमोऽधिदैवम्। (१०) उपस्थेन्द्रियमध्यात्मम्, ग्राम्यसुखोत्पत्तिः (मैथुनसुखोत्पत्तिः) अधिभूतम्, प्रजापतिरधिदैवम्। (११) मनोऽध्यात्मम्, मन्तव्यम् (सङ्कल्पः) अधिभूतम्, चन्द्रोऽधिदैवम्। (१२) बुद्धिरध्यात्मम्, बोद्धव्यम् (निश्चयः) अधिभूतम्, बृहस्पतिरधिदैवम्। (१३) अहङ्कारोऽध्यात्मम्, अहङ्कर्तव्यमधिभूतम्, रुद्रोऽधिदैवम्। (१४) चित्तमध्यात्मम्, चिन्तनीयमधिभूतम्, क्षेत्रज्ञः *३ साक्षी अधिदैवम्। एताश्चतुर्दश त्रिपुट्यः पञ्च प्राणाश्च मिलित्वैतानि विराडूपस्य विश्वस्यैकोनविंशतिमुखानि।

*१. सूर्याश्वस्य प्राणाभ्यामश्विनीकुमारयोरुत्पत्तिवर्णनात् घ्राणदेवते अश्विनीकुमाराविति । केचनाहुः। पृथिव्या घ्राणस्योत्पन्नत्वात्पृथिव्यभिमानिनी देवता घ्राणदेवतेति वार्तिककारा आहुः।

*२. वचनक्रियाया विषयभूतः पदार्थो वक्तव्यमित्युच्यते। स वचनक्रियाद्वारा वागिन्द्रियस्याधिभूतम्। एवमेव सर्वेन्द्रियाणां स्वस्वक्रियाद्वारा विषयभूतः पदार्थः अधिभूतमिति ज्ञेयम्। क्वचित्तु स्थूलदृष्ट्या वचनादिक्रियैवाधिभूतमित्युच्यते।

*३. साक्षिचैतन्यं चित्तस्याश्रयत्वात्तस्यानुग्रहं करोति। तस्मात् साक्षिचैतन्यं चित्तस्याधिदैवमित्युच्यते। अत एव केचनाचार्याश्चिन्तनरूपं स्मृतिज्ञानं साक्ष्याश्रितमाहुः। क्वचिच्चित्तस्याधिदैवं नारायणः (वासुदेवः) इत्युक्तम्।