- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः
- २९६-३१५ ब्रह्मस्वरूपस्योङ्कारस्यात्मनश्चाभेदः
आवर्तः २९८ – आत्मनो ब्रह्मणश्च पादचतुष्टयादिनिरूपणम्
ब्रह्मरूपमोङ्कारमात्मनोऽभिन्नतया चिन्तयेत्। तथा हि, आत्मनः ब्रह्मणा सह मुख्याभेदोऽस्ति। ब्रह्मण इवात्मनश्चत्वारः पादाः सन्ति। पादो नाम भागोंऽशो वा। *१ विराट् हिरण्यगर्भः, *२ ईश्वरः, तत्पदलक्ष्यार्थभुतेश्वरसाक्षी चेति ब्रह्मणश्चत्वारः पादाः। *३ विश्वः, *४ तैजसः, *५ प्राज्ञः, त्वंपदलक्ष्यजीवसाक्षी चेति चत्वार आत्मनः पादाः। जीवसाक्षिण एव तुरीय इति व्यपदेशः। समष्टिस्थूलप्रपञ्चसहितचेतनस्य विराडिति नाम। व्यष्टिस्थूलाभिमानिनो विश्व इति नाम। विराजो विश्वस्य च स्थूलोपाधिकत्वाद्विश्वो विराडूप एव न ततोऽन्यः।
*१. सकलप्राणिशरीरेष्वहमित्यभिमानकरणात् ईश्वरो वैश्वानर इति कथ्यते। विविधं राजते = अनेकधा प्रकाशते इति स एव वैश्वानरः ‘विराट्’ इत्यभिधीयते।
*२. सकलजीवानां कर्मानुसारेण फलदानात् ‘ईश्वरः’ इति नाम।
*३. सूक्ष्मदेहाभिमानापरित्यागेनैव स्थूलदेहे ‘अहम्’ इत्यभिमानवान् जाग्रदभिमानी जीवः ‘विश्वः’ इत्युच्यते।
*४. तेजश्शब्दवाच्यान्तःकरणसहितः ‘तैजसः’ इत्यभिधीयते। प्राणेन्द्रियाध्यक्षः स्वप्नाभिमानी जीवः
*५. प्राज्ञः = प्र + अज्ञः। सुषुप्तिकाले स्वप्रकाशात्मानन्देन सहाज्ञानवृत्तेः सत्त्वात् सुषुप्त्यभिमानी जीवः ‘प्राज्ञः’ इति कीर्त्यते।
विराडूपस्य विश्वस्य सप्ताङ्गानि सन्ति। द्यौः = स्वर्गलोकः शिरः। सूर्यश्चक्षुः। वायुः प्राणः। आकाश उरः। समुद्रादिरूपं जलं मूत्रस्थानं (बस्तिः)। पृथिवी पादौ। आहवनीयः = होमाधिकरणोऽग्निः मुखम्। इत्येतानि सप्त विश्वस्याङ्गानि। द्युलोकादीनि यद्यपि न विश्वस्याङ्गानि तथापि विराजोऽङ्गानि भवन्ति। तस्य विराजो विश्वेनाभेदोऽस्ति। तस्मान्माण्डूक्योपनिषदि विश्वाङ्गत्वेन तान्युक्तानि।
एवमेव विराडात्मकविश्वस्यैकोनविंशतिमुखानि सन्ति। प्राणाः पञ्च, कर्मेन्द्रियाणि पञ्च, ज्ञानेन्द्रियाणि पञ्च, अन्तःकरणचतुष्टयमित्येतानि मुखानि। भोगस्य साधनभूतत्वात् मुखानीत्युच्यन्ते। जाग्रदवस्थायामेतैरेकोनविंशतिमुखैः स्थूलशब्दादयो बाह्यवृत्त्यानुभूयन्ते। तस्माद्विराडूपो विश्वः स्थूलभुगिति, बाह्यवृत्तिरिति, जाग्रदवस्थ इति च कथ्यते।