ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९६-३१५ निर्गुणप्रणवोपासनक्रमः


आवर्तः २९७ – ओङ्कारस्य ब्रह्माभेदेन चिन्तनम्

यथा सर्वस्वरूप ओङ्कारः। तथा सर्वस्वरूपं ब्रह्म। तस्मादोङ्कारो ब्रह्मरूपः। अथवा ओङ्कारो ब्रह्मणो वाचकः। ब्रह्म ओङ्कारस्य वाच्यम्। वाच्यवाचकयोरभेदोऽस्ति। तस्मादप्योङ्कारो ब्रह्मरूपः। किञ्च विचार्यमाणे यदक्षरं ब्रह्मण्यध्यस्तं तस्य ब्रह्माधिष्ठानं भवति। अध्यस्तस्य स्वरूपमधिष्ठानान्नातिरिच्यते। तस्मादप्योङ्कारो ब्रह्मैव। तस्मादोङ्कारं ब्रह्मरूपेण चिन्तयेत्।