- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्
- २९४-३१५ निर्गुणप्रणवोपासनक्रमः
आवर्तः २९६ – सर्ववस्तूनामोङ्कारस्वरूपत्वम्
निर्गुणप्रणवोपासनक्रम एवात्र निरूप्यते, न सगुणोपासनक्रमः। सगुणोपासनस्य फलमपि निर्गुणोपासनेऽन्तर्भवति। तथा हि निर्गुणोपासकस्यापि ब्रह्मलोकेच्छावत इच्छारूपप्रतिबन्धसत्त्वान्न ज्ञानद्वारा मोक्षलाभः। किन्तु तस्य ब्रह्मलोकप्राप्तिर्भवति। स तत्र हिरण्यगर्भसमान् भोगाननुभूय तत्रैव ब्रह्मविचारेण ज्ञानोदयद्वारा मोक्षं लभते। ब्रह्मलोकेच्छारहितस्य निर्गुणोपासकस्य त्विहैव लोके ज्ञानलाभान्मोक्षः सिद्ध्यति। इत्थं सगुणोपासनफलस्य निर्गुणोपासनान्तर्भूतत्वादिह निर्गुणोपासनमेव निरूप्यते।
कारणकार्यरूपं सर्वं वस्त्वोङ्कारस्वरूपमेव। अतः सर्वोऽपि रूपप्रपञ्च ओङ्कार एव । सर्वेष्वपि पदार्थेषु नाम रूपं चेत्यंशद्वयमस्ति। तत्र तत्तन्नामात्मकांशान्नातिरिच्यते। किन्तु नामस्वरूपमेव रूपांशोऽपि। तथा हि, पदार्थानां रूपात्मको य आकारविशेषस्तदभिधायकनामपदैरेव सर्वे पदार्था निरूपताः सन्तो गृह्यन्ते त्यज्यन्ते वा। तत्तदभिधानज्ञानमन्तरा केवलाकारमात्रेण व्यवहारो न सिद्ध्यति। अतो नामैव सारभूतम्। आकारनाशेऽपि नामावशिष्यते। यथा नष्टेऽपि घटे मृदवशिष्यते इति मृद्व्यतिरेकेण घटो नास्ति। किन्तु मृत्स्वरूपमेव भवति। तथा आकारे नष्टेऽपि मृद्वदवशिष्यमाणनाम्नो न भिद्यते आकारः नामस्वरूपमेव भवत्याकारोऽपि। । किन्तु
अथवा घटशरावोदञ्चनादिषु मृदनुगता भवति। घटशरावोदञ्चनादयः परस्परं व्यभिचरन्ति। तस्माद्धटशरावादयो मिथ्या। तेष्वनुगता मृत्सत्या। एवं घटस्याकारा नाना। तेषामभिधायकं ‘घटः’ इति नामैकमेव। एकस्य घटस्याकारो न घटान्तरेऽस्ति। तस्मादाकारा व्यभिचारिणः। सर्वेष्वपि घटाकारेषु एकमेव नामानुगतं वर्तते। तस्मान्मिथ्याभूत आकारः *१ सत्यभूतान्नाम्नो नातिरिच्यते। इत्थमेव सर्वपदार्थानामाकारोऽपि तत्तन्नाम्नो न व्यतिरिक्तः। तस्मान्नामस्वरूप एवाकारः।
*१. यथा पुण्याधिक्यान्मनुष्यापेक्षयाधिककालस्थायी देवः ‘अमरः’ इत्युपचारेणोच्यते तथैव घटादिपदार्थानामाकारापेक्षया घटादिनाम्नामधिककालस्थायित्वात् नाम्नां सत्यत्वमुपचारादुच्यते।
सर्वोऽयं नामप्रपञ्च ओङ्कारव्यतिरेकेण नास्ति। किन्तु ओङ्कारस्वरूपमेव सर्वं नाम। तथा हि वाचकशब्द एव ‘नाम’ इति कथ्यते। लोके वेदे च प्रयुक्तः सर्वः शब्द ओङ्कारादेवोत्पन्न इति श्रुतिषूच्यते। “तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृष्णानि एवमोङ्कारेण सर्वा वाक् सन्तृण्णा” “ओङ्कार एवेदं सर्वम्” इति। कार्यं सर्वं कारणस्वरूपमेव भवति। तस्मादोङ्कारकार्यभूतानि वाचकशब्दात्मकानि नामानि ओङ्कारस्वरूपाणि। इत्थं रूपांशो यः पदार्थाकारः स नामस्वरूपः। नाम च सर्वमोङ्कारस्वरूपम्। तस्मात् सर्वस्वरूप ओङ्कारः।