ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २८४-३१६ महावाक्यार्थोपदेशनिरूपणम्
- २८६-३१६ पूर्वोक्तप्रश्नश्योत्तरम्
- २९४-३१५ प्रणवोपासननिरूपणम्


आवर्तः २९५ – निर्गुणप्रणवोपासनस्य सगुणप्रणवोपासनस्य च फलम्

प्रणवोपासनमनेकोपनिषत्सु वर्णितम्। माण्डूक्योपनिषदि विशेषेण वर्णितम्। तदुपनिषद्व्याख्याने भाष्यकारैरानन्दगिर्याचार्यैश्च विस्पष्टं वर्णितञ्च। तत्र यः क्रमः स एव वार्तिकारैः पञ्चीकरणग्रन्थे प्रतिपादितः। तादृशप्रौढग्रन्थविचारासमर्थानामनायासेन बोधाय प्रणवोपासनक्रमोऽत्र निरूप्यते –

उपनिषत्सु प्रणवोपासनं द्विधा वर्णितम् – परब्रह्मरूपेण प्रणवस्योपासनम्, अपरब्रह्मरूपेण प्रणवस्योपासनं चेति। निर्गुणं ब्रह्म ‘परं ब्रह्म’ इत्युच्यते। सगुणं ब्रह्म ‘अपरं ब्रह्म’ इति कीर्त्यते। परब्रह्मरूपेण प्रणवोपासको मोक्षमेव लभते। अपरब्रह्मरूपेण प्रणवोपासकस्तु ब्रह्मलोकम् आप्नोति। इत्थं निर्गुणसगुणभेदेन प्रणवोपासनं द्विविधम्।