ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २७३-२८३ आत्मविवेकः अथवा पञ्चकोशविवेकः
- २७९-२८२ आनन्दमयकोश एवात्मेति मतम्


आवर्तः २८२ – ईश्वरीयपञ्चकोशैस्तत्स्वरूपाच्छादनम्

यथा जीवस्य पञ्चकोशा जीवस्य यथार्थस्वरूपं साक्षिणमावृण्वन्ति तथेश्वरस्य समष्टिपञ्चकोशा *१ ईश्वरस्य यथार्थस्वरूपमावृण्वन्ति।

*१. यथा जीवस्य पञ्चकोशा जीवस्य निजस्वरूपं प्रत्यगात्मानं जीवदृष्टिं प्रत्याच्छादयन्ति न तथेश्वरस्य पञ्चकोशा ईश्वरस्य निजं स्वरूपं ईश्वरदृष्टिं प्रत्याच्छादयन्ति। ईश्वरस्यावरणरहितत्वेन नित्यमुक्तत्वात् न तस्य किञ्चिदपि कर्तव्यमस्ति। तस्मात् यथा व्यष्टिपञ्चकोशेभ्यः प्रत्यगात्मनो विवेचनं जीवेन कर्तव्यं तथा समष्टिपञ्चकोशेभ्यो ब्रह्मणो विवेचनमपि जीवेनैव कर्तव्यम्। सद्रूपः चिद्रूपः, आनन्दरूपः, अद्वय इत्यात्मनश्चत्वारि विशेषणानि। देहादेस्तु अनृतः, जडः, दुःखरूपः, सद्वय इति चत्वारि विशेषणानि। तत्रात्मनः सद्रूपचिद्रूपाभ्यां देहादेरनृतजडरूपयोस्तिरोधानं भवति। तस्माद्देहादिः सत्त्वेन । चेतनत्वेन च भाति। देहादेः दुःखरूपेण सद्वयत्वेन चात्मन आनन्दरूपत्वाद्वयत्वयोरभिभवो भवति। अतश्चात्मा दुःखित्वेन सद्वितीयत्वेन च भाति। इत्थमात्मनः पञ्चकोशानां चान्योन्याध्यासोऽस्ति। तस्मान्मुमुक्षुरवश्यं पञ्चकोशविवेचनं कुर्यात्।

तथा हि ईश्वरस्य यथार्थं स्वरूपं तत्पदलक्ष्यं यद्रूपं तदेव। तमेतं श्रौतमर्थं विहाय केचन मायारूपानन्दमयकोशविशिष्टमन्तर्यामिणं तत्पदवाच्यमेव परमतत्त्वमिति वदन्ति। तथैवान्ये हिरण्यगर्भवैश्वानरविष्णुब्रह्मशिवगणेशदेवीसूर्यादिषु खड्गकुद्दालाश्वत्थार्कवेण्वन्तेषु पदार्थेषु परमात्मत्वभ्रान्तिमापन्नाः। यद्यपि सकलपदार्थेषु लक्ष्यभागः परमात्मनो न भिन्नः तथापि तत्तदुपाधिविशिष्टानेव परमात्मत्वेन मन्यन्ते। तदेतन्मतं तेषां भ्रान्तिरेव। पञ्चकोशावृताज्जीवेश्वरयोः परमार्थस्वरूपाद्बहिर्मुखा देहादिष्वात्मत्वभ्रान्तिमापद्य पुण्यपापान्याचरन्ति। अन्तर्याम्यादिवंशपर्यन्तानां पदार्थानामीश्वरबुद्ध्या आराधनं कृत्वा सुखं प्राप्तुमिच्छन्ति। यादृशमुपाधिमाराधयन्ति तदनुसारेण फलं च सिद्ध्यति। यस्मात्कारणसूक्ष्मस्थूलरूपः सर्वोप प्रपञ्च ईश्वरशरीरेऽन्तर्भूतस्तस्मात् तत्तदुपासनानुसारि फलं भवति। तथा चोक्तं पञ्चदश्यां चित्रदीपे –

एवमन्ये स्वस्वपक्षाभिमानेनान्यथान्यथा।
मन्त्रार्थवादकल्पादीनाश्रित्य प्रतिपेदिरे॥ १२०॥

अन्तर्यामिणमारभ्य स्थावरान्तेशवादिनः।
सन्त्यश्वत्थार्कवंशादेः कुलदेवत्वदर्शनात्॥ १२१॥

इत्यादिना। परन्तु मोक्षो न ब्रह्मज्ञानं विना सिद्ध्यति। यो मोक्षमिच्छति स विवेकेन जीवेश्वरयोः स्वरूपं पञ्चकोशेभ्यः पृथक्कृत्य जानीयात्। तत्र दृष्टान्तः। यथा मिलितयोः *१ मुञ्जेषीकयोः पृथक्करणं क्रियते, तथा विवेकेन जीवेश्वरयोः स्वरूपं पञ्चकोशेभ्यः पृथक्कृत्य जानीयात्।

१. मुञ्जा नाम कोशविशिष्टदीर्घतृणविशेषः। ईषीका नाम तत्तृणमध्यस्थकाण्डविशेषः।