- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २७३-२८३ आत्मविवेकः अथवा पञ्चकोशविवेकः
- २७९-२८२ आनन्दमयकोश एवात्मेति मतम्
आवर्तः २८१ – प्राभाकरनैयायिकयोर्मतम् (आनन्दमयकोश आत्मा)
पूर्वमीमांसकैकदेशिनः प्राभाकरा नैयायिकाश्चैवं कथयन्ति – नात्मा शून्यरूपः। ‘आत्मा शून्यरूपः’ इति वदन्नेवं प्रष्टव्यः – शून्यरूपं तेनानुभूयते न वेति। यदि शून्यरूपमनुभूयते तदा येन तच्छून्यरूपमनुभूयते स एवात्मा। स च शून्यविलक्षण इति च सिद्ध्यति। यदि शून्यरूपं नानुभूयते तदा शून्यमेव नास्तीति सिद्ध्यति। अनया रीत्या शून्यविलक्षण आत्मा सिद्धः। तस्यात्मनो मनसा संयोगेन ज्ञानमुत्पद्यते। तेन ज्ञानरूपेण गुणेनात्मा चेतनो भवति। स्वरूपतस्त्वात्मा जडः। सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा अप्यात्मनो गुणा इति।
तन्मतेऽप्यानन्दमयकोश एवात्मा। विज्ञानमयकोशस्था या बुद्धिः सात्मनो ज्ञानरूपो गुण इत्युच्यते। तथा हि, आनन्दमयकोशे चैतन्यं गूढमते। विवेकहीनानां न तत्प्रतीयते। तस्मात्प्राभाकरा नैयायिकाश्च सुषुप्तमात्मानं ज्ञानहीनं मन्वानाः स्वरूपत एवात्मानं जडमाहुः। तस्माद्गूढचैतन्ये आनन्दमयकोशे एव तयोरात्मत्वभ्रान्तिरस्ति। अपि च तन्मते आत्मस्वरूपं नित्यज्ञानं न जीवेऽभिमतम्, किन्त्वनित्यज्ञानमेव जीवेऽभिमतम्। तच्चानित्यं ज्ञानं सिद्धान्तेऽन्तःकरणवृत्त्यात्मकबुद्धिरूपं भवति। इत्थं *१ प्राभाकरनैयायिकयोर्मते आनन्दमयकोश आत्मा। बुद्धिस्तस्यात्मनो गुणः।
*१. प्राभाकरनैयायिकयोर्मतखण्डनम् ‘सुषुप्तौ ज्ञानाभावादात्मा जडः ‘ इत्येतन्न युज्यते। ‘सुखमहमस्वाप्सं न किञ्चिदवेदिषम्’ इति परामर्शबलात् सुषुप्तौ सुखाज्ञानयोरनुभवस्योपपादितत्वात् तेषां वचनं बाधितं भवति। आत्मा यदि स्वरूपतो जडः स्यात् तदा सुषुप्तावनुभूतस्यानन्दस्य स्मरणं न स्यात्। स्मर्यते तु। तस्मादात्मा न जडः।
इदमपि मतं न समीचीनम्। ज्ञानभिन्नं यद्यज्जडवस्तु घटादिकं तत्सर्वमनित्यमस्ति। यद्यात्मा ज्ञानस्वरूपो न भवेत् तदा घटादिवज्जडोऽनित्यश्च भवेत्। आत्मनोऽनित्यत्वे मोक्षान्वयिनोऽभावात् मोक्षसाधनानां निष्प्रयोजनता स्यात्।
इत्थं वेदान्तवाक्येष्वश्रद्दधाना बहिर्मुखाः पुरुषा गुरुसंप्रदायशून्याः पञ्चकोशेष्वन्यतममेव स्वस्वबुद्ध्यनुसारेणात्मत्वेन मन्वाना मुख्यमात्मानं साक्षिणं न जानन्ति। तस्मादन्नमयादय आत्मन आच्छादकत्वात् कोशा इति वर्ण्यन्ते।