- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २७३-२८३ आत्मविवेकः अथवा पञ्चकोशविवेकः
- २७९-२८२ आनन्दमयकोश एवात्मेति मतम्
आवर्तः २८० – माध्यमिकबौद्धमतम् (आनन्दमयकोश आत्मा)
शून्यवादिनो बौद्धास्त्वेवमाहुः, आत्मा निरंशः। तस्मादेकस्यैवात्मनः प्रकाशरूपत्वमप्रकाशरूपत्वं च न घटेत। खद्योतस्य सांशत्वादेकोंऽशः प्रकाशरूपोऽपरोंऽशोऽप्रकाशरूपश्च भवति। न त्वात्मनो निरंशस्य विरुद्धोभयरूपवत्त्वकथनं युक्तम्। यद्युभयरूपतासिद्धये आत्मनः सांशत्वम् अङ्गीक्रियते तर्हि सांशानां घटादीनामुत्पत्तिनाशदर्शनादात्मनोऽपि उत्पत्तिनाशवत्त्वं प्रसज्येत। यदुत्पत्तिनाशवद्वस्तु तदुत्पत्तेः प्रागूर्ध्वं च नाशादसद्भवति। आद्यन्तयोर्यदसत्तन्मध्येऽप्यसदेव भवति। “आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा” (मा. का. वै. ६) इति स्मृतेः। तस्मादुत्पत्तिनाशवत्त्वे आत्मा असद्रूपो भवेत्। तथा आत्मभिन्नः सर्वोऽपि पदार्थः उत्पत्तिनाशवत्त्वादसद्रूप एव। अनया रीत्या आत्मानात्मरूपसकलवस्तूनामसद्रूपत्वात् शून्यमेव परमतत्त्वमिति शून्यवादिनो माध्यमिकबौद्धस्य मतम्।
तेऽप्यज्ञानरूपानन्दमयकोशमेव प्रतिपादयन्ति। तथा हि दृष्टिभेदेनाज्ञानं त्रिभी रूपैः प्रतीयते। (१) अद्वैतशास्त्रसंस्काररहितस्य जगदाकारेण परिणतमज्ञानं सत्यत्वेन प्रतीयते। (२) अद्वैतशास्त्रानुसारियुक्तिकुशलानां पण्डितानामज्ञानं तत्कार्यं जगच्च सदसद्विलक्षणानिर्वचनीयत्वेन भाति। (३) ज्ञाननिष्ठां प्राप्तस्य जीवन्मुक्तस्य विदुषोऽज्ञानं तत्तकार्यं च तुच्छत्वेन प्रतीयते। तुच्छम्, असत्, शून्यम् इति त्रयः शब्दाः समानार्थाः। तथा चोक्तं पञ्चदश्यां चित्रदीपे –
माया चेयं तमोरूपा तापनीये तदीरणात्।
अनुभुतिस्तत्र मानं प्रतिजज्ञे श्रुतिः स्वयम्॥ १२५॥
जडं मोहात्मकं तच्चेत्यनुभावयति श्रुतिः।
आबालगोपं स्पष्टत्वादानन्त्यं तस्य साब्रवीत्॥ १२६॥
इत्थं लौकिकदृष्ट्यैतत् सर्वैरप्यनुभूयते।
युक्तिदृष्ट्या त्वनिर्वाच्यं नासदासीदिति श्रुतेः॥ १२८॥
नासदासीद्विभातत्वान्नो सदासीच्च बाधनात्।
विद्यादृष्ट्या श्रुतं तुच्छं तस्य नित्यनिवृत्तितः॥ १२९॥
तुच्छानिर्वचनीया च वास्तवी चेत्यसौ त्रिधा।
ज्ञेया माया त्रिभिर्बोधैः श्रौतयौक्तिकलौकिकैः॥ १३०॥ इति।
इत्थं जीवन्मुक्तानां तुच्छत्वेन प्रतीयमानेऽज्ञाने मोहमापन्नाः शून्यवादिनो न परमपुरुषार्थं लभन्ते। किन्तु तुच्छरूप आनन्दमयकोश एवात्मेति वदन्ति।