- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २७३-२८३ आत्मविवेकः अथवा पञ्चकोशविवेकः
- २७३-२८३ आनन्दमयकोश एवात्मेति मतम्
आवर्तः २७९ – आनन्दमयकोश एवात्मेति मतम्
तत्र भट्टमतम् – पूर्वमीमांसावार्तिककारो भट्ट एवमाह – न हि विद्युल्लेखेवात्मा क्षणिकः, किन्तु स्थिरः। स आत्मा जडरूपः प्रकाशरूपश्चास्ते। अयमस्याभिप्रायः सुषुप्तेरुत्थित एवं वदन्ति ‘एतावन्तं कालमहं जो निःसंज्ञोऽस्वाप्सम्’ इति। तस्मादातमा जडरूप इति सिद्ध्यति। किञ्च सुषुप्तादुत्थितस्य स्मृतिरपि भवति। अननुभूतेऽर्थे न स्मृतिर्भवेत्। सुषुप्तावात्मस्वरूपातिरिक्तं न किञ्चिदपि ज्ञानसाधनमस्ति। सुषुप्त्यनन्तरभाविस्मृतेः कारणं सौषुप्तज्ञानमेव वाच्यम्। तच्च सुषुप्तिकालीनं ज्ञानमात्मस्वरूपमेव। इत्थमात्मा खद्योतवत्प्रकाशरूपोऽप्रकाशरूपश्च। ज्ञानरूपत्वात् प्रकाशरूपः, जडरूपत्वादप्रकाशरूपश्च। आनन्दमयकोश एव प्रकाशरूपोऽ प्रकाशरूपश्चास्ति। सुषुप्तौ चैतन्याभाससहिताज्ञानमेवानन्दमयकोश इत्युच्यते। तत्र चिदाभासः प्रकाशरूपोऽज्ञानमप्रकाशरूपं च भवति। तस्माद्भट्टमते आनन्दमयकोश एवात्मेति सिद्धम्।