ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २७३-२८३ आत्मविवेकः अथवा पञ्चकोशविवेकः


आवर्तः २७८ – विज्ञानवादिबौद्धमतम् (बुद्धिरेवात्मा)

क्षणिकविज्ञानवादी बौद्ध एवमाह – मनसो व्यापारो बुद्ध्यधीनो भवति। यतो बुद्धेराकार एव मनस्तस्मात् क्षणिकविज्ञानरूपा बुद्धिरेवात्मा भवितुमर्हति। मनो नात्मेति।

तेषामयमाशयः – सर्वे पदार्था विज्ञानस्यैवाकारा भवन्ति। तच्च विज्ञानं प्रकाशरूपम्। प्रतिक्षणं विज्ञानमुत्पद्य विनश्यति। पूर्वविज्ञानस्य सममन्यद्विज्ञानमुत्पद्यते। ततः पूर्वविज्ञानं विनश्यति। तथैव तृतीयविज्ञानोत्पत्तौ द्वितीयविज्ञानस्य विनाशो भवति। तुरीयविज्ञानस्योत्पत्तौ तृतीयविज्ञाननाशो भवति। एवं नदीप्रवाहवद्विज्ञानस्य धाराविच्छिन्नानुवर्तते। सा च विज्ञानधारा एका आलयविज्ञानधारा। अन्या तु प्रवृत्तिविज्ञानधारा। ‘अहम्, अहम्’ इति विज्ञानधारा आलयविज्ञानधारेति कीर्त्यते। सैव बुद्धिरिति कथ्यते। ‘अयं घटः, अयं देहः’ इति विज्ञानधारा प्रवृत्तिविज्ञानधारेति भण्यते। आलविज्ञानधारायाः सकाशात्प्रवृत्तिविज्ञानधारोत्पद्यते। मनसः स्वरूपमपि प्रवृत्तिविज्ञानधारान्तर्भूतमेव। अतो मन आलयविज्ञानधारारूपबुद्धेः कार्यम्। सा बुद्धिरेवात्मा। आलयविज्ञानधारया प्रवृत्तिविज्ञानधाराया बाधचिन्तनेन निर्विशेषक्षणिकविज्ञानधारायाः स्थितिः सिद्ध्यति। तादृशी स्थितिरेव तन्मते मोक्षः। इत्थं विज्ञानवादिनो बुद्धेः क्षणिकतां स्वयंप्रकाशरूपतां च कल्पयित्वा, सा *१ बुद्धिरेवात्मेति वर्णयन्ति।

*१. विज्ञानवादमतखण्डनम् – बुद्धशिष्यं योगाचारं येऽनुसरन्ति ते क्षणिकविज्ञानरूपां बुद्धिमात्मेति वर्णयन्ति। तदसङ्गतम् – (१) रूपादीनां ज्ञानरूपं कार्यं प्रति नेत्रादीन्द्रियं साधनम्। तथा निश्चयरूपकार्यं प्रति साधनभूता बुद्धिर्नामा भवितुमर्हति। किन्तु सर्वपदार्थनिश्चायिकाया बुद्धेर्यः साक्षी स एवात्मा। (२) स आत्मा स्वयं स्वयंप्रकाशरूपत्वात्सदा भासते। अतो भास्यरूपादेर्भासकः सूर्यादिर्यथा भास्यविलक्षणस्तथा भास्यबुद्धेर्भासक आत्मा बुद्धेर्विलक्षणः सिद्ध्यति। यथा दीपादेः प्रकाशो घटादिना सम्बद्धो घटादेराकारमापद्य सम्मिश्रतया भासमानोऽपि वस्तुतो घटादेर्विलक्षणस्वभाव एव तथा ज्ञानस्वरूप आत्मा बुद्धिवृत्त्या सम्बद्धस्तदाकारमापद्याविविक्ततया भासमानोऽपि परमार्थतया बुद्धिवृत्तेर्विलक्षणो नित्यशुद्धासङ्गचिन्मात्ररूपः। (३) अपञ्चीकृतभूतसमष्टिसत्त्वगुणांशकार्यभूतस्यान्तःकरणस्य निश्चयरूपक्रियया बुद्धिरिति, सङ्कल्पविकल्परूपक्रियया मन इति च व्यपदेशः। तस्माद्बुद्धिरन्तःकरणादव्यतिरिक्ता। ततश्च भौतिकान्तःकरणाव्यतिरिक्तबुद्धेरपि भौतिकत्वाद्देहेन्द्रियमनोवदनात्मत्वमेव सिद्धम्। (४) कठोपनिषत्तृतीयवल्लयां आत्मनो रथस्वामित्वेन, बुद्धेः सारथित्वेन च वर्णनं दृश्यते। यथा सारथिविलक्षणो रथस्वामी तथा बुद्धिविलक्षण आत्मा भवति। (५) ‘मम बुद्धिरिदानीं मन्दा, इदानीं तीक्ष्णा’ इति ममताविषयत्वाद्बुद्धेरहंताविषयत्वं न युज्यते। अतो न बुद्धिरात्मा। (६) आत्मनः क्षणिकत्वं विज्ञानवादिसम्मतमत्यन्तमसङ्गतम्। तथात्वे उत्तमर्णो गतवत्सरे दत्तं धनमस्मिन् वत्सरेऽधमर्णान्नादातुमिच्छेत्। प्रथमक्षणे भुक्तवान् पुरुष उत्तरक्षणे ‘तृप्तोऽहमस्मि इति न ब्रूयात्। आत्मनः क्षणिकत्वे गतवत्सरे धनं दत्तवत उत्तमर्णस्य, पूर्वक्षणे भुक्तवतः पुरुषस्य चेदानीमभावात्। तस्मादात्मा न क्षणिकः। (७) आत्मनः क्षणिकत्वे मोक्षसाधनकलापो व्यर्थः स्यात्।

१. आत्मा चिज्जडोभयात्मक इति भट्टपक्षोऽप्यसङ्गतः – ‘अयमन्धकारः प्रकाशः’, ‘अयं पुरुषः स्थाणुः’ इतिवच्चैकत्र वस्तुनि चिज्जडांशविरोधात्। उभयांशत्वमङ्गीकृत्य ‘नोभावप्यंशावनुभवगोचरौ किन्तु जडांश एवानुभव। गोचरो न चेतनांशः’ इति कथनं तु न युक्तम्। यथा दण्डदर्शनमात्रेण ‘अयं दण्डी’ इति ज्ञानं न जायते; किन्तु दण्डपुरुषोभयदर्शनेनैव जायते तथा जडांशमात्रदर्शनेन न चिज्जडोभयात्मकात्मसिद्धिर्भवेत्। चेतनांशस्याप्यनुभवगोचरत्वाभ्युपगमे जाड्यं तत्र कल्पितमिति वक्तव्यम्। हठादुभयोरंशयोः सत्यत्वाभ्युपगमे आत्मनो जडचेतनांशयोः परस्परं कः संबन्धः। संयोगो वा विषयविषयिभावो वेति स प्रष्टव्यः –

आद्ये पक्षे ‘अनित्ययोः सावयवयोर्द्वयोर्वस्तुनोरेव संयोग’ इति नियमादात्मनोऽनित्यत्वं प्रसज्येत। द्वितीयपक्षे चिज्जडांशयोरुभयोरप्येकस्यैवात्मनः स्वरूपत्वाच्चिदशो जडो भवेत्। जडांशश्च चिद्भवेत्। तृतीयपक्षे घटतज्ज्ञानवदुभयोरंशयोरनात्मत्वं भवेत्। “विज्ञानमानन्दं ब्रह्म” (बृ. ३.१.२७) “प्रज्ञानं ब्रह्म” (ऐ. ३.१) “सत्यं ज्ञानमनन्तं ब्रह्म” (तै. ब्र. १) इत्यादिश्रुतिप्रसिद्धज्ञानमात्रस्वरूपस्यात्मनोऽर्धांशस्य जडत्वाभ्युपगमे प्रमाणं नोपलभ्यते। सुप्तोत्थितस्य ‘जडो निःसंज्ञोऽहमस्वाप्सम्’ इत्यात्मनो जडत्वसम्पादिका या स्मृतिरुक्ता सा सौषुप्ताज्ञानमेव विषयीकरोति। तस्मादात्मनो जडचेतनोभयांशकत्वमसङ्गतमेव।

‘सर्वं शून्यम्; शून्यमेव परमतत्त्वम्, सुषुप्तिकालीनाज्ञानरूपानन्दमयकोश एवात्मा’ इतीदं माध्यमिकमतमप्यसङ्गतमेव। तथा हि किं शून्यं साक्षिसहितमुत साक्षिरहितमुत स्वप्रकाशमिति त्रिधा तत्र विकल्पो भवति। आद्यपक्षे यः शून्यस्य साक्षी स शून्याद्विलक्षण आत्मा सिद्ध्यते। द्वितीयपक्षे साक्षिरहितत्वाच्छून्यमेव न सिद्ध्यति। तृतीयपक्षे स्वप्रकाशत्वादस्मदभिमतं ब्रह्मैव शून्यमिति नामान्तरेणोक्तं भवति। तथा च शून्यासिद्धिरेव।

“असद्वा इदमग्र आसीत्” ( तै. ब्र. ७) “असदेवेदमग्र आसीत्” (छा. ६.२.१) इत्यादिवाक्यानि पूर्वापरविरोधात् न शून्यं प्रतिपादयन्ति। किन्तु नैयायिकवैशेषिकबौद्धादयः प्रागभावादीन् जगतः कारणत्वेन वर्णयन्ति तदनूद्य तादृशविपरीतग्रहनिवर्तने एव तादृशश्रुतीनां तात्पर्यम्। असत् = अनभिव्यक्तनामरूपात्मकम् इदम् =जगत्, अग्रे = प्राक् सृष्टेरासीदिति श्रुत्यर्थः। इत्थं शून्यवादोऽसङ्गत एव।

बौद्धशिष्याश्चत्वारः। (१) माध्यामिकः शून्यवादी, (२) योगाचारः क्षणिकविज्ञानवादी, (३) सौत्रान्तिकोऽनुमेयबाह्यपदार्थवादी, (४) वैभाषिकः प्रत्यक्षबाह्यार्थवादी।