- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २७३-२८३ आत्मविवेकः अथवा पञ्चकोशविवेकः
आवर्तः २७७ – मनआत्मवादः
अन्ये आहुः प्राणो जडः। तस्मात् स नात्मा, घटादिवत्। बन्धमोक्षौ मनोमात्राधीनौ। विषयासक्तं मनो बन्धहेतुः। विषयवासनाशून्यं मनो मोक्षहेतुः। किञ्च, मनः संबन्धादेवेन्द्रियाणां स्वस्वविषयावबोधनसामर्थ्यम्। नान्यथा। तस्मान्मन एव सर्वव्यवहारकारणम्। *१ अतो मन एवात्मा।
*१. मनआत्मवादखण्डनम् – नारदपाञ्चरात्रतन्त्रानुसारिणो मन एवात्मेति वदन्ति। तदपि न संभवति। (१) टङ्कवास्यादिवन्मनसः करणत्वान्न मन आत्मा। (२) सुषुप्त्यादौ मसनोऽभावेऽपि सामान्यचैतन्यस्य सत्त्वात् सति मनसि चैतन्यं तदभावे तदभावः” इत्यन्वयव्यतिरेकस्य भङ्गात् न मनश्चेतनम्, किन्तु जडमेव। तस्मान्मनो नात्मा। (३) ‘मम मनोऽन्यत्र गतम्, इदानीं प्रत्यागतम्’ इति व्यवहारान्मनो ममताया विषयो नाहंतायाः। तस्मान्मनसः स्थैर्यचाञ्चल्यादिवेत्ता साक्षीभूत आत्मा मनोविलक्षणः सिद्धः। (४) चैतन्याभाससहितमेव मनो भोक्तृ भवति, न स्वतन्त्रं मनः । अतोSभोक्तृत्वादपि मनो नात्मा।
(५) मन एव मनुष्याणां कारणं बन्धमोक्षयोः।
बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम्॥
इति वचनास्यायमाशयः – विषयवासनावासितं मनो मोक्षसाधनं प्रतिबद्ध्य जगदध्यासास्पदं भूत्वा बन्धकारणं भवति। तदेव च मनो विषयवासनारहितं ज्ञानप्राप्तिद्वारा मनसः स्वरूपं बाधित्वा मोक्षकारणं भवतीति। न तद्वाक्यं मनस एवात्मतां बोधयति। किन्तु बन्धसाधनान्निवृत्तिं मोक्षसाधने प्रवृत्तिं तद्वाक्यं बोधयति। (६) “मनो ब्रह्मेति व्यजानात्” (तै. भृ. ४) इत्यादिना मनोमयकोशस्यात्मत्वबोधकश्रुतेस्तात्पर्यं तु स्थूलारुन्धतीन्यायेनेति प्राक् प्रदर्शितम्।