- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २७३-२८३ आत्मविवेकः अथवा पञ्चकोशविवेकः
आवर्तः २७६ – हिरण्यगर्भोपासकानां प्राणात्मवादः
हिरण्यगर्भोपासकाः प्राण एवात्मेति वदन्ति।
तत्रेमां युक्तिमाचक्षते मरणसमये मूर्च्छितस्य पार्श्वस्थाः सति प्राणेऽयं जीवतीति तदभावेऽयं मृत इति च निश्चिन्वन्ति। किञ्च चक्षुःश्रोत्रवागादीन्द्रियाभावे तत्तदिन्द्रियव्यापारोपरमेऽपि अन्धबधिरमूकानां शरीरं यथावदवस्थितमेव भवति। प्राणोत्क्रमणे तु शरीरं तत्क्षणमेव पतित्वा भयङ्करं श्मशानवदमङ्गलं च भवति।
किञ्च ‘चक्षुष्मानहं पश्यामि श्रोत्रवानहं शृणोमि इति व्यवहारादिन्द्रियविलक्षण आत्मा सिद्धः। स चात्मा क इति जिज्ञासायां सुषुप्तौ सर्वेन्द्रियोपरमेऽपि प्राणो जागर्ति। प्राणसत्त्वादेव तदा ‘अयं जीवति’ इति व्यवहारो भवति। स्थूलशरीरात्प्राणवियोगे तु ‘अयं मृतः’ इति व्यवहारो जायते। तस्माज्जीवनमरणव्यवहारयोः शरीरे प्राणसद्भावासद्भावाधीनत्वात् *१ प्राण एवात्मेति निश्चेयः।
*१. प्राणात्मवादखण्डनम् – समष्टिप्राणहिरण्यगर्भोपसकमतमसङ्गतम् । (१) बाह्यवायुवत्प्राणस्यापि वायुविशेषत्वान्न स आत्मा। (२) प्राणस्यादर्शनं न नियमेन मरणकारणम्। वृक्षादिषु प्राणादर्शनेऽपि तेषां जीवनात्। मनुष्यस्य मूर्च्छावस्थायामपि क्वचित् प्राणसत्त्वोपलब्धिर्नास्ति। अथापि मनुष्यो न मृतो भवति। परन्तु जीवत्येव। तस्मादपि प्राणो नात्मा। (३) अपि च सुषुप्तौ सन्नपि प्राणः धनाद्यपहारिणं चोरं न निवारयति। न वा बन्धुजनमागतं पुरस्करोति। तस्मात्प्राणो जडः। अतश्च स नात्मा। (४) देहाद्बहिः प्राणोत्क्रमणे देहस्य मृतत्वप्रसिद्धेः प्राण आत्मेति वचनमप्यसङ्गतम्। देहाद्बहिर्जाठराग्नेर्निर्गमादपि लोके मरणप्रसिद्धेः सत्त्वात्। अतः प्राणोत्क्रमणे मरणप्रसिद्धिर्व्यभिचरिता। श्रु प्राणश्रैष्ठ्यकीर्तनं प्राणोपासनाविधिस्तुतयेऽर्थवादः। (५) श्रुतौ प्राणमयादिकोशानामात्मत्वप्रतिपादनं स्थूलारुन्धतीन्यायेन सर्वान्तरप्रत्यगभिन्नाधिष्ठानब्रह्मप्रदर्शनार्थम्। (६) श्रुतौ प्राणस्येन्द्रियैः सह संवादस्य देहे तत्प्रवेशस्य च वर्णनं प्राणाभिमानिदेवताभिप्रायेणेति ज्ञेयम्। (७) क्षुधया मम प्राणो याति। भोजनेन मम प्राणस्तृप्यतीत्यादिव्यवहाराप्राणो ममताविषय एव भवति। न त्वहंताविषयः। अतो न स आत्मा। (८) स्वप्राणस्य बहिर्गमनस्यान्तरागमनस्य च वेदनात् तद्वेदनकर्ता साक्षी आत्मा प्राणादन्य सिद्धम्।