ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २७३-२८३ आत्मविवेकः अथवा पञ्चकोशविवेकः


आवर्तः २७५ – इन्द्रियात्मवादः

अपरे केचनैवमाहुः स्थूलशरीरं नात्मा। किन्तु स्थूलशरीरे यत्सद्भावे जीवनव्यवहारो भवति, यदभावे मरणव्यवहारो भवति स आत्मा। स च स्थूलशरीराद्व्यतिरिक्तः। जीवनमरणव्यवहाराविन्द्रियाधीनौ भवतः। शरीरे यावत्कालपर्यन्तमिन्द्रियाणि स्वस्वव्यापारक्षमाणि भवन्ति तावत्कालपर्यन्तं ‘अयं जीवति’ इति व्यवहारो भवति। यस्य कस्यापीन्द्रियस्य नाशे ‘अयं मृतः’ इति च व्यवह्रियते। किञ्च ‘अहं पश्यामि’ ‘अहं वदामि’ इत्यादिव्यवहारे ‘अहम्’ इति बुद्धिरिन्द्रिये एव भवति। तस्मात् ‘अहम्’ इति बुद्धिविषयेन्द्रियमेवात्मा।