ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २७३-२८३ आत्मविवेकः अथवा पञ्चकोशविवेकः


आवर्तः २७४ – विरोचनसिद्धान्तः (अन्नमयकोशात्मवादः)

केचन पामरा विरोचनसिद्धान्तमनुसरन्तोऽन्नमयकोशमेवात्मेति वदन्ति। तत्रैवं युक्तीः कथयन्ति। (१) यत्राहमिति धीरुत्पद्यते, स आत्मा। सा चाहंधीः स्थूलशरीरे भवति। ‘अहं मनुष्यः’ ‘अहं ब्राह्मणः’ इत्यनुभवः सार्वजनीनः। मनुष्यत्वब्राह्मणत्वादिधर्माः स्थूलशरीरस्यैव। तस्मादहंधीविषयस्थूलदेह एवात्मा। अथवा यत्र मुख्या प्रीतिर्भवति स आत्मा दारापत्यधनपश्वादयो यतोऽस्य स्थूलदेहस्योपकुर्वन्ति ततस्तेषु प्रीतिर्भवति यदि तेऽस्य स्थुलदेहस्य नोपकुर्वन्ति तदा तेषु प्रीतिर्नास्ति। यस्य निमित्तेनान्यत्र प्रीतिरुपजायते तस्मिन्नेव स्थुले देहे मुख्या प्रीतिः सर्वेषाम्। तस्मात् स्थुलदेह एवात्मा। तस्माद्वस्त्राभरणान्नपानाद्युपकरणैः स्थूलशरीरस्य समलङ्कृत्य पोषणमेव परमपुरुषार्थ इत्यसुरराजविरोचनस्य सिद्धान्तः।