- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५३-२८३ आत्मविवेकः अथवा पञ्चकोशविवेकः
आवर्तः २७३ – पञ्च कोशास्तैरात्मन आवरणं
मायायां तत्कार्येषु च त्रीणि शरीराणि पञ्च कोशाश्चान्तर्भवन्ति। शुद्धसत्त्वगुणप्रधाना मायेश्वरस्य कारणशरीरम्। मलिनसत्त्वप्रधानाविद्यांशो जीवस्य कारणशरीरम्।
उत्तरशरीरारम्भकपञ्चसूक्ष्मभूतानि मनोबुद्धिचित्ताहङ्काराश्चत्वारः, पञ्च प्राणाः, पञ्च कर्मेन्द्रियाणि, पञ्च ज्ञानेन्द्रियाणि च मिलित्वा जीवस्य सूक्ष्मशरीरं भवति। सकलजीवानां सूक्ष्मशरीराणि मिलित्वा ईश्वरस्य सूक्ष्मशरीरं भवति। सकलमपि स्थूलं ब्रह्माण्डम् ईश्वरस्य स्थूलशरीरं भवति। जीवस्य॒ व्यष्टिस्थूलशरीरं तु प्रसिद्धमेव। शरीरत्रयेऽस्मिन्नेव पञ्चकोशा अन्तर्भवन्ति। कारणशरीरे आनन्दमयकोशस्यान्तर्भावः। सूक्ष्मशरीरे विज्ञानमयमनोमयप्राणमयानां त्रयाणां कोशानामन्तर्भावः। पञ्च ज्ञानेन्द्रियाणि निश्चयात्मकान्तःकरणवृत्तिरूपा बुद्धिश्च मिलित्वा विज्ञानमयकोश इत्युच्यते। पञ्च ज्ञानेन्द्रियाणि सङ्कल्पविकल्पात्मकान्तःकरणवृत्तिरूपमनश्च मिलित्वा मनोमयकोशः। पञ्च प्राणाः पञ्च कर्मेन्द्रियाणि च मिलित्वा प्राणमयकोशः। स्थूलशरीरम् अन्नमयकोश इत्युच्यते इति शरीरये पञ्चापि कोशा अन्तर्भवन्ति। ईश्वरशरीरे ईश्वरकोशाः, जीवशरीरे जीवकोशाश्च वर्तन्ते। कोशो नामाच्छादनं पिधानं वोच्यते। असिपिधानं यथा असिस्वरूपमाच्छादयति तथैते पञ्च कोशा आत्मनः स्वरूपमाच्छादयन्तीत्यन्नमयादयः कोशा इति कीर्त्यन्ते। अनेके मन्दमतयो गुरुशास्त्रसंप्रदायविहीना पञ्चकोशान्तर्गतमनात्मभूतं यं कमपि पदार्थमात्मत्वेन मन्यमानाः कोशानां साक्षिभूतान्मुख्यात्मस्वरूपाद्विमुखा भवन्ति। अत एवान्नमयादयः कोशा आत्मस्वरूपाच्छादका इति वर्ण्यन्ते।