- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २६४-२७२ जगत्सृष्टिवर्णनम्
- २७१-२७२ स्थूलसृष्टिः
आवर्तः २७२ – स्थूलब्रह्माण्डाद्युत्पत्तिः
एवं पञ्चीकृतभूतेभ्य इन्द्रियगोचरं स्थूलब्रह्माण्डम् उत्पद्यते। तस्मिन् ब्रह्माण्डे भूर्भुवस्वर्महर्जनस्तपःसत्य इत्युपरि सप्त लोकाः, अतलसुतलपातालवितलरसातलतलातलमहातला इत्यधः सप्त लोका वर्तन्ते। एषु चतुर्दशसु लोकेषु वसतां जीवानां पृथक्पृथगुपभोगयोग्यान्नपानादिकं, देवमनुष्यपश्वादिरूपाणि भोगायतनानि *१ स्थूलशरीराणि चोत्पद्यन्ते। इत्थं सङ्क्षेपेण सृष्टिरुक्ता। मायावैभवस्य विस्तरेण निरूपणं तु कोटिब्रह्मायुषापि न शक्यते। मायासृष्टपदार्थानां नान्तोऽस्तीति वाल्मीकिर्वासिष्ठे नानेतिहासैर्निरूपतिवान्।
१. स्थूलशरीरम् स्थूलसूक्ष्मकारणात्मकानि त्रीणि शरीराणि सन्ति। प्रतिक्षणं शीर्यमाणत्वात् शरीरम् इति व्यपदेशः। दह्यमानत्वात् देह इति तस्यैव व्यपदेशः। लोमत्वक्सिरामांसास्थिमज्जानां षण्णां समुदायः स्तम्भादिवत्प्रत्यक्षेणोपलभ्यमानत्वात् स्थूलदेह इत्युच्यते। स च देहः पञ्चविंशतितत्त्वात्मकः। तानि च तत्त्वानि निम्नदेशे । प्रदर्शितपताकया सुखं ज्ञातुं शक्यानि।
तदंशा एते
| मुख्यतत्त्वानि | पृथिवी | आपः | तेजः | वायुः | आकाशः |
|---|---|---|---|---|---|
| पृथिवी | अस्थि | मांसम् | नाड्यः | त्वक् | लोम |
| आपः | रक्तम् | शुक्रम् | मूत्रम् | स्वेदः | लाला |
| तेजः | आलस्यम् | कान्तिः | क्षुत् | पिपासा | निद्रा |
| वायुः | आकुञ्चनम् | गमनम् | स्थितिः | धावनम् | प्रसारणम् |
| आकाशः | भयम् अथवा कटिः | मोहः अथवा उदरम् | क्रोधः अथवा हृदयम् | कामः अथवा कण्ठः | शोकः अथवा शिरः |
अस्याः पताकाया विवरणम् – पृथिव्यंशेन पृथिव्यंशसंबन्धेऽस्थि, अबंशसंबन्धे मांसम्, तेजोंऽशसंबन्धे नाड्यः, वाय्वंशसंबन्धे त्वक्, आकाशांशसंबन्धे लोमानि चोत्पद्यते। इत्थमेव तत्तद्भूतांशसंबन्धे तत्त्वान्तराणि संभवन्तीति विज्ञेयम्। पञ्चविंशतितत्त्वानां पञ्चभूतलक्षणमुच्यते – (क) आकाशे (१) भयकाले पृथिवीवच्छरीरस्य जाड्यसंभवाद्भयं पृथिव्यंशः। (२) पुत्रदारादिषु जलवत् प्रसरणान्मोहो जलांशः। (३) अग्निवद्दाहकत्वात् क्रोधोऽग्न्यंशः। (४) वायुवच्चञ्चलात्मकत्वात् कामो वाय्वंशः। (५) शोकसमये आकाशवद्देहस्य शून्यतापत्तेः शोक आकाशांशः। (ख) वायौ (६) पृथिवीवत् सङ्कुच्यमानत्वात् आकुञ्चनं पृथिव्यंशः। (७) जलवच्चलनात्मकत्वाद्गमनं जलांशः। (८) तेजोवच्छोषणात् प्रकाशनाद्वा स्थितिरग्न्यंशः। (९) वायुवद्धावनाद्धावनं वाय्वंशः। (१०) आकाशवत्प्रसरणात् प्रसरणमाकाशांशः। (ग) तेजसि (११) जडस्वाभाव्यादालस्यं पृथिव्यंशः। (१२) जलवद्धूमविशिष्टत्वात् कान्तिर्जलांशः। (१३) भुक्तस्य भस्मी - करणात् क्षुत् तेजोंऽशः। (१४) शीकरशोषकवायुवत् कण्ठशोषणात् पिपासा वाय्वंशः। (१५) निद्रागमे आकाशवच्छरीरस्य शून्यत्वापादनान्निद्रा आकाशांशः। (घ) अप्सु (१६) जपाकुसुमादिवद्रक्तवर्णत्वाद्रक्तं पृथिव्यंशः। (१७) जलवद्द्रवीभूतत्वात् गर्भहेतुभूतशुकं जलांशः। (१८) तेजोवदुष्णरूपत्वान्मूत्रं तजोंऽशः। (१९) वाय्वधीनवृष्टिवत् स्वेदस्य श्रमोत्पन्नत्वात् स्वेदो वाय्वंशः। (२०) आकाशवदधरोत्तरगामित्वात् लाला आकाशांशः। (ङ) पृथिव्याम् (२१) काठिन्यादस्थि पृथिव्यंशः। (२२) आर्द्रत्वात् मांसं जलांशः। (२३) नाडीभ्यस्तापसंभवान्नाड्यस्तेजोऽशः। (२४) शीतोष्णत्वात् त्वग्वाय्वंशः। (२५) आकाशवत् कृन्तनेऽप्यपीड्यमानतया स्थितत्वाल्लोमाकाशांशः।
एते भयमोहादयो यद्यपि सूक्ष्मशरीरस्यैवासाधारणा धर्मास्तथापि जलाश्रयघटे जलनिष्ठशैत्योपलब्धिवत् स्थूलदेहमाश्रित्योपलभ्यमानत्वात् स्थूलदेहस्य धर्मा इत्युपचारत उच्यन्ते। अत एवैते स्थूलदेहतत्त्वेषु परिगणिताः। एतत्पञ्चविंशतितत्त्वसमुदायस्य स्थूलदेह इति व्यवहारः। नामरूपवर्णाश्रमजातिजन्ममरणादयो धर्माः स्थूलदेहस्यैव। भुक्तस्यान्नस्य स्थविष्ठो भागः पुरीषं भवति। मध्यमो भागो मांसं भवति। सूक्ष्मो भागो मन उपचिनोति। पीतस्य जलस्य स्थूलांशो मूत्रं भवति। मध्यमोंऽशो रक्तं भवति। सूक्ष्मोंऽशः प्राणोपचयं करोति। भक्षितस्य तैलघृतादिस्नेहद्रव्यस्य स्थूलांशोऽस्थि भवति। मध्यमोंऽशो मेदो भवति। सूक्ष्मोंऽशो वाचमुपचिनोति। मातुः शोणितात् शिशो रक्तमांसचर्माणि जायन्ते। पितुः शुक्रादस्थिनाडीमज्जा जायन्ते। एतत् स्थूलशरीरं चतुर्विधं भवति, अण्डजं जरायुजं स्वेदजमुद्विज्जमिति। अण्डाज्जायमानपक्षिसर्पादयोऽण्डजाः। उल्बाज्जायमानमनुष्यमृगादयो जरायुजाः। स्वेदाज्जायमानयूकामशकादयः स्वेदजाः। बीजं भूमिं वोद्भिद्य जायमाना वृक्षौषधिवीरुधादय उद्भिज्जाः।
सूक्ष्मशरीरम् – अपञ्चीकृतपञ्चभूतकार्यात्मकसप्तदशतत्त्वोपेतं सूक्ष्मशरीरमित्युक्तमात्मबोधे –
पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम्।
अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम्॥ १३॥ इति।
तत्र प्राणाः पञ्च, कर्मेन्द्रियाणि पञ्च ज्ञानेन्द्रियाणि पञ्च, मन एकम् बुद्धिश्चैकेति सप्तदशतत्त्वानि मिलित्वा लिङ्गम् इत्युच्यते। शुभाशुभकर्मकर्तृत्वम्, सुखदुःखादिफलभोक्तृत्वम्, इहलोकपरलोकादिगमनागमने, रागद्वेषादि, शमदमादि, आन्ध्यमान्द्यपटुत्वादि च सर्वं लिङ्गशरीरधर्माः। स्थूलशरीरवत्प्रत्यक्षप्रमाणागोचरत्वात्सूक्ष्मशरीरमित्युच्यते शब्दादिविषयोपलब्धिहेतुत्वात्, लक्षणया आत्मावबोधकत्वाच्च लिङ्गदेह इति कीर्त्यते
कारणशरीरम् – अज्ञानमेव कारणशरीरमित्युच्यते। स्थूलसूक्ष्मशरीरयोः कारणत्वादज्ञानं कारणशरीरमित्युच्यते। अस्य च स्वरूपं प्रागभितिहम्। तत्त्वज्ञानदाह्यत्वात् कारणदेह इति चोच्यतेऽज्ञानमेव।
ईश्वरस्य शरीराणि कोशाश्च – यानीश्वसमष्ट्यज्ञानरूपमायेश्वरस्य कारणशरीरम्। सैवेश्वरस्य आनन्दमयकोशः। जीवानां सूक्ष्मशरीरसमष्टिरूपहिरण्यगर्भः ईश्वरस्य सूक्ष्मशरीरम्। अत्रेश्वरस्य विज्ञानमयमनोमयप्राणमयकोशा अन्तर्भवन्ति। । श्रोत्रादिपञ्चज्ञानेन्द्रियाधिष्ठातृदेवतारूपदिक्पालवायुसूर्यवरुणाश्विनीकुमारात्मकानि रस्य पञ्चज्ञानेन्द्रियाणि तानि समष्टिबुद्धिमयमहत्तत्त्वरूपः अथवा सर्वबुद्ध्यभिमानिब्रह्मरूपा येश्वरस्य बुद्धिः सा च मिलित्वा ईश्वरस्य विज्ञानमयकोशः। पूर्वोक्तश्रोत्राद्यधिष्ठातृदेवतारूपाणि यानीश्वरस्य पञ्च ज्ञानेन्द्रियाणि तानि, समष्टिमनोमयाहङ्काररूपं वा सर्वमनोऽभिमानिचन्द्ररूपं वा यदीश्वरस्य मनस्तच्च मिलित्वा ईश्वरस्य मनोमयकोशः। अग्नीन्द्रोपेन्द्रप्रजापतियमात्मकानि यानीश्वरस्य पञ्च कर्मेन्द्रियाणि तानि समष्टिप्राणो वा वाय्वभिमानिदेवतारूपो वा य ईश्वरस्य प्राणः स च मिलित्वा ईश्वरस्य प्राणमयकोशः। समष्टिस्थूलसृष्टिरूपो विराडीश्वरस्य स्थूलशरीरम्। स एवेश्वरस्यान्नमयकोशः। उत्पन्नो
पञ्चकोशः – मातापितृभ्यामुपभुक्तान्नरसपरिणामरूपशुक्रशोणितसंबन्धान्मातुरुदरे जननानन्तरमपि क्षीरशाकादिरूपान्नेन वर्धितो मरणानन्तरमप्यन्नरूपपृथिव्यामेव लीयमानो देहोऽन्नमयकोश उच्यते। प्राणमयकोशस्तु केवलरजोगुणस्यावस्थाविशेषः। प्राणादयो वायव आपादमस्तकं स्थूलदेहं व्याप्य तस्य बलमाधायेन्द्रियाणि स्वस्वव्यापारेषु प्रवर्तयन्ति। कर्मेन्द्रैिर्व्यवहारनिर्वर्तनादिच्छादिरूपरजोगुणवृत्तिसहितत्वाच्च मनोमयकोशः सत्त्वरजोगुणयोरवस्थाविशेषः। विज्ञानमयकोशस्तु केवलसत्त्वगुणस्यावस्थाविशेषः। एवमवस्थाभेदेनैकस्मिन्नेव सूक्ष्मशरीरे त्रयः कोशा वर्ण्यन्ते। आनन्द एवात्मनः स्वरूपम्। आत्मस्वरूपानन्दप्रतिबिम्बसहिताप्रियमोदप्रमोदरूपवृत्तिलयाविधभूता या अविद्या सैव कारणदेहः। सैवानन्दमयकोशश्च। इष्टवस्तुदर्शनजन्या वृत्तिः प्रिय इति, तल्लाभजन्या वृत्तिः प्रमोद इति च कीर्त्यते। एता वृत्तयो जाग्रत्स्वप्नयोरवस्थयोः पुण्यकर्मफलभूतसुखानुभवकाले उद्भवन्ति। सुषुप्तौ ता वृत्तयः स्वकारणेऽज्ञाने लीयन्ते एतादृशमज्ञानमानन्दमयकोश इत्युच्यते। तत्रान्नमयकोशो भोगस्थानम्। सूक्ष्मशरीरं भोगसाधनम्। तत्रापि प्राणमयकोशः क्रियाशक्तिमत्त्वात् कार्यरूपो भवति। मनोमयकोशस्तु इच्छाशक्तिमत्त्वात्करणरूपो भवति। विज्ञानमयकोशस्तु । ज्ञानशक्तिमत्त्वात् कर्तृरूपो भवति। आनन्दमयकोशस्तु भोक्तृरूपः।
१. चार्वाकमतानुसारिणो वाय्वादिभूतचतुष्टयसङ्घातरूपं देहमात्मत्वेन प्रतिपन्नास्तत्रैता युक्तीराहुः (१) अहंधीविषयो यः स आत्मा। ‘अहं मनुष्यः’ ‘अहं स्थूलः’ ‘अहं कृशः’ ‘अहं ब्राह्मणः’ इत्याद्यनुभवेषु मनुष्यत्वादिधर्मविशिष्टः स्थूलदेह एव विषयो भवतीति स देह एवात्मा। (२) अथवा परमप्रेमविषयो यः स आत्मा। एतत्स्थूलदेहोपकारकत्वनिमित्तं पुरस्कृत्यैव पुत्रमित्रकलत्रादयः प्रिया भवन्ति। परमप्रीतेर्विषयः। एवं परमप्रेमास्पदत्वरूपात्मलक्षणयोगात्स्थूलदेह एवात्मा। (३) तस्य । देहस्यालङ्करणपोषणादिजन्यभोग एव परमपुरुषार्थः। (४) मरणमेव मोक्षः। (५) प्रत्यक्षमेकमेव प्रमाणं नान्यत्प्रमाणमस्तीति।
तदेतच्चार्वाकमतमसङ्गतम् – (१) ‘अहं पश्यामि’, ‘अहं वदामि’ इत्यादिव्यवहारेष्विन्द्रियस्याप्यहंधीविषयत्वं दृश्यते। (२) ‘मम देहः कृशः’ इत्यादिव्यवहारेषु देहस्य ममताविषयत्वमपि भवति। यो ममताविषयः स अहंताविषयो न भवितुमर्हति। इत्थं स्थूलदेहे अहंधीविषयत्वस्य व्यभिचारदर्शनात्स्थूलदेहो नात्मा। (३) पुत्रदाराद्यपेक्षया स्थूलदेहेऽधिकप्रीतिदर्शनेऽपि देहादप्यतिशयिता प्रीतिरिन्द्रियेषु दृश्यते। तथा च परप्रेमास्पदत्वस्याप्यभावात् स्थूलदेहो नात्मा। (४) किञ्च चेतन एवात्मा भवितुमर्हति। जडानां भूतानां सङ्घातरूपे देहे चैतन्याभावाद्देहो नात्मा। (५) पूगचूर्णादिसंयुक्तताम्बूलपत्रे रागजननशक्तिवत् भूतसमुदायात्मकदेहे ज्ञानशक्तिरस्तीत्येतन्न युज्यते। जडभूतसमुदायरूपदेहे ज्ञानशक्तिरस्ति चेत्तर्हि भूतसमुदायरूपघटादावपि चैतन्यं प्रसज्येत। न तु घटादौ चैतन्यमस्ति। (६) सुषुप्तिमूर्च्छामरणाद्यवस्थासु घटादिवद्देहोऽपि जडो भवति। तस्मान्न जडो देह आत्मा भवति। (७) यदि देह आत्मा भवेत् तदा बालदेहाद्भिन्ने यौवनदेहे ‘सोऽहम्’ इति प्रत्यभिज्ञा न भवितुमर्हति। जायते तु तथा प्रत्यभिज्ञा। अतो।ऽपि देहो नात्मा। (८) जन्ममरणादियुक्तस्य देहस्य जन्मनः पूर्वं मरणादूर्ध्वं च सत्ता नास्ति। आत्मा त्वस्ति। अन्यथा कृतनाशाकृताभ्यागमप्रसङ्गः स्यात्। अतश्च देहो नात्मा। (९) देहालङ्करणपोषणादिजन्यभोग एव परमपुरुषार्थ इत्यपि न। तथा हि, यः इच्छाविषयः स पुरुषार्थ इत्युच्यते। सा चेच्छा सर्वेषां सुखप्राप्तौ दुःखनिवृत्तौ च भवति। अतस्तयोरेव पुरुषार्थत्वमुचितम्। तत्रापि सर्वसुखापेक्षया अधिकं यत्सुखम्, आत्यन्तिकी च या दुःखनिवृत्तिस्तयोरेव परमपुरुषार्थत्वं भवति। तादृशं निरतिशयं सुखं आत्यन्तिकी दुःखनिवृत्तिश्च मोक्षे एव स्तः। वैषयिकभोगे दोषसत्त्वान्न स परमपुरुषार्थः। (१०) देहस्यात्मत्वे मरणानन्तरं देहस्य दाहे मोक्षान्वयिनो देहरूपस्यात्मन एवाभावात् ‘मरणमेव मोक्षः’ इति शब्दो निरर्थकः। (११) भाविभोजनादौ तृप्त्यादिहेतुत्वज्ञानमनुमानप्रमाणेन सिद्ध्यति। देशान्तरे मृतपित्रादिमरणज्ञानमाप्तवाक्यरूपशब्दप्रमाणात् सिद्ध्यति। तस्मात्प्रत्यक्षमात्रस्य प्रमाणत्ववादो हठ एव। इत्थं देहात्मवादिचार्वा - कमतमसङ्गतमेव।
१. चार्वाकैकदेशिनो लोकायतिका इन्द्रियात्मवादिनः। तन्मतमप्यसङ्गतम्। (१) यदभावे शरीरं न तिष्ठेत्स आत्मा। श्रोत्रनेत्रवाक्पादाद्यभावेऽपि बधिरान्धमूकपङ्गरूपं शरीरं जीवत्येव। तस्मान्नेन्द्रियमात्मा। (२)अहं पश्यामि’, ‘अहं वदामि’ इत्यादिव्यवहारे इन्द्रियस्याहंधीविषयत्वादिन्द्रियमेवात्मेति यदुक्तं तत्राप्युच्यते, ‘चक्षुष्मानहं पश्यामि’ इत्येव तत्र वक्तुरभिसन्धिः। न तु ‘चक्षूरूपोऽहं पश्यामि’ इति। तस्मात् तत्राहमनुभवस्य विषयश्चक्षुरादीन्द्रियव्यतिरिक्त एव भवति। किञ्च मम चक्षुस्तीक्ष्णम्’ ‘मम चक्षुर्मन्दम्’ इति चक्षुरादीन्द्रियेषु ममताविषयत्वदर्शनात्तेषु अहंताविषयत्वं व्यभिचरितम्। तस्मादिन्द्रियं नात्मा। (३) यो यत् वेत्ति स वेत्ता वेद्याद्विलक्षणः। यथा घटस्य द्रष्टा घटाद्विलक्षणस्तथेन्द्रियाणां पटुत्वमन्दत्वादिवेत्ता आत्मेन्द्रियाद्विलक्षणः। (४) मनसोऽन्यत्र व्याकुलत्वे श्रोत्रादीनि शब्दादीन् न गृह्णन्तीति जडानीन्द्रियाणि। अतश्च नेन्द्रियमात्मा। (५) एवं सति हठादिन्द्रियमेव चेतनमिति यो वदति स एवं ‘किमेकमेवेन्द्रियं चेतनम् उत सर्वेन्द्रियाणां समुदायः, आहोस्वित् प्रत्येकं सर्वाणीन्द्रियाणि’ इति। नाद्यः यदिन्द्रियं चेतनत्वेनाभिमतं तस्याभावेऽपि ज्ञानं जीवनं च दृश्यते। तस्मादेकमेवेन्द्रियं चेतनमिति पक्षोऽसङ्गतः। न द्वितीयः इन्द्रियसमुदायमध्ये एकस्येन्द्रियस्य नाशेऽपि समुदायनाशो भवति। ततश्च समुदायान्तर्गतस्यैकस्येन्द्रियस्य नाशे समुदायनाशात् ज्ञानजीवनयोर्विलयः प्रसज्यते। न तु तथा भवति। तस्मादिन्द्रियसमुदायोऽपि न चेतनः। न तृतीयः प्रत्येकमिन्द्रियाणामात्मत्वे एकस्मिन् देहे दश चेतना आत्मानोऽङ्गीकार्याः। दशानां विरुद्धेच्छत्वसंभवात् विरुद्धेच्छनानाचेतनाधिष्ठितं शरीरं दशानां मत्तगजानामलनस्तम्भवदुन्मथ्येत। इत्थमिन्द्रियाणामचेतनत्वान्न तेषामात्मत्वं युक्तम्। (६) श्रुतिषु प्रसिद्ध इन्द्रियसंवाद इन्द्रियाभिमानिदेवताविषयो वेदितव्यः। न ताः श्रुतय इन्द्रियाणां चेतनत्वे प्रमाणम्। तस्मादिन्द्रियात्मवादोऽसङ्गतः।