- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २६४-२७२ जगत्सृष्टिवर्णनम्
- २६४-२७२ स्थूलसृष्टिः
आवर्तः २७१ – पञ्चीकरणप्रकारः
पञ्चीकरणे द्वौ प्रकारावुक्तौ। प्रथमप्रकारस्त्वेवम् एकैकसूक्ष्मभूतस्य तमोगुणांशं साम्येन द्विधा विभजेत्। तत्रैकमर्थं पृथगवस्थापयेत्। ततोऽपरमर्धं साम्येन चतुर्धा विभजेत्। एवं पुनर्विभागेन निष्पन्नमेकैकभूतस्याष्टममंशं पृथगवस्थापितेन स्वस्वेतरभूतचतुष्टयस्यार्धभागेन योजयेत्। एवं पञ्चीकरणं निष्पद्यते। तत्रैकैकस्मिन्नपि स्थूलभूते एकमर्थं स्वांशः। अम स्वेतरैकैकभूताष्टमांशमेलनेन निष्पन्नम्। एवमेकैकस्मिन्नपि स्थूलभूते पञ्चानामपि भूतानामंशसत्त्वात् स्थूलभूतानि पञ्चीकृतानीति वर्ण्यन्ते।
*१ द्वितीयप्रकारस्त्वेवम् – एकैकसूक्ष्मभूतस्य तमोगुणांशं वैषम्येण द्विधा विभजेत्। तत्रैको भागश्चतुर्भिरंशैर्निष्पन्नः। अपरस्तु भागः पञ्चमांशेन। तत्र चतुरंशनिष्पन्नमधिकपरिमाणकं भागं पृथगवस्थापयेत्। पञ्चमांशनिष्पन्नं न्यूनपरिमाणकं भागं पुनः पञ्चधा विभजेत्। तत्रैकमेकमंशं पृथगवस्थापिताधिकपरिमाणकपञ्चभागेषु पृथक् पृथग्योजयेत्। अनेनापि प्रकारेण पञ्चीकरणं सिद्ध्यति।
*१. प्रथमप्रकारे प्रतिभूतमर्धभागस्य स्वकीयत्वेऽपीतरार्धभागस्य स्वेतरभूतचतुष्टयांशनिष्पन्नत्वात् तेन भागेन स्वभागस्य तिरोधानं सम्भाव्येत। ततश्चाकाशादीनां भूतानां प्रत्येकं पृथक् पृथग्भानं दुर्घटं स्यादिति मत्वा यथा प्रतिभूतं स्वांशाधिक्यं स्यात्तथा द्वितीयः प्रकार आश्रीयते।
तत्र प्रथमप्रकारे प्रतिभूतमेकमर्थं स्वांशः। अपरमर्धं तु स्वेतरभूतचतुष्टयस्यांशः। यथा आकाशे एकमर्थं स्वस्यैवांशः। द्वितीयमर्धं तु वायोरष्टमांशेन, तेजसोऽष्टमांशेन, जलस्याष्टमांशेन, पृथिव्या अष्टमांशेन च निष्पन्नम्। एवं भूतान्तरेष्वप्यूह्यम्। द्वितीयप्रकारे तु प्रतिभूतमेको भागः स्वकीयैरेकविंशत्यंशैर्निष्पन्नः। द्वितीयो भागस्तु स्वेतरभूतानां चतुर्भिरंशैर्निष्पन्नः। यथा आकाशे एको भागः स्वकीयैकविंशत्यंशात्मकः। अपरो भागस्तु वायोः पञ्चविंशांशेन, तजसः पञ्चविंशांशेन, जलस्य पञ्चविंशांशेन पृथिव्याः पञ्चविंशांशेन च निष्पन्नः। एवं भूतान्तरेष्वप्यूहनीयम्। प्रथमप्रकारापेक्षया द्वितीयप्रकारे प्रतिभूतं स्वांशाधिक्याद्विविच्य पृथक् पृथगाकाशादीनां भानं सुघटं भवति।