ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २६४-२७२ जगत्सृष्टिवर्णनम्
- २६६-२७० सूक्ष्मसृष्टिनिरूपणम्


आवर्तः २७० – सूक्ष्मसृष्टेरुपसंहारः

अपञ्चीकृतभूतानि तत्कार्यभूतान्तःकरणप्राणकर्मेन्द्रियाणि सूक्ष्मसृष्टिरिति कीर्त्यते। सूक्ष्मसृष्टिविषयकं ज्ञानं नेन्द्रियैरुत्पद्यते। नेत्रनासिकादिगोलकानि तु यद्यपीन्द्रियविषयाणि तथापि तत्तद्गोलकान्तःस्थेन्द्रियाणि न कस्यचिदपीन्द्रियस्य विषयीभवन्ति। सूक्ष्मसृष्ट्युत्पत्त्यनन्तरमीश्वरेच्छया स्थूलसृष्टिनिमित्तं भूतानां पञ्चीकरणं निष्पद्यते।