ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २६४-२७२ जगत्सृष्टिवर्णनम्
- २६६-२७० सूक्ष्मसृष्टिनिरूपणम्


आवर्तः २६९ – ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां चोत्पत्तिः

अपञ्चीकृतैकैकभूतसत्त्वगुणांशात् पञ्चज्ञानेन्द्रियाणि रचितानि। एकैकभूतरजोगुणांशादेकैकं कर्मेन्द्रियं रचितम्। आकाशस्य सत्त्वगुणात् श्रोत्रम्, वायोः सत्त्वगुणांशात् त्वक्, तेजसः सत्त्वगुणांशात् नेत्रम्, जलस्य सत्त्वगुणांशात् रसना, पृथिव्याः सत्त्वगुणांशात् घ्राणं चाजायत। एतानि पञ्चेन्द्रियाणि ज्ञानस्य साधनानि, अतो ज्ञानेन्द्रियाणीत्युच्यन्ते। ज्ञानं सत्त्वगुणाज्जायते। अतश्चैतानि पञ्चेन्द्रियाणि भूतानां सत्त्वगुणादुत्पन्नत्वेनोच्यन्ते। श्रोत्रेन्द्रियमाकाशस्य गुणं शब्दं गृह्णातीति तदाकाशस्य सत्त्वगुणकार्यम्। एवमेव यदिन्द्रियं यस्य भूतस्य गुणं गृह्णाति तत्तस्य भूतस्य सत्त्वगुणकार्यमिति ज्ञेयम्।

आकाशस्य रजोगुणांशात् वाक्, वायो रजोगुणांशात् पाणिः, अग्ने रजोगुणांशात् पादः, जलस्य रजोगुणांशात् उपस्थः, पृथिव्या रजोगुणांशात् गुदं चोत्पद्यते। स्त्रीयोनौ पुरुषलिङ्गे च वर्तमानं विषयानन्दलवसाधनमिन्द्रियम् उपस्थ इत्युच्यते। कर्मेति क्रियोच्यते। एतानि पञ्चेन्द्रियाणि क्रियासाधनत्वात् कर्मेन्द्रियाणीत्यभिधीयन्ते। क्रियाया रजोगुणकार्यत्वाद्भूतानां रजोगुणांशात्कर्मेन्द्रियोत्पत्तिर्वर्णिता। इत्थं सूक्ष्मसृष्टिर्निरूपिता।