ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २६४-२७२ जगत्सृष्टिवर्णनम्
- २६६-२७० सूक्ष्मसृष्टिनिरूपणम्


आवर्तः २६८ – पञ्चभेदसहितप्राणोत्पत्तिः

अपञ्चीकृतपञ्चभूतसमष्टिरजोगुणांशात् पञ्चवृत्तिप्राणः सम्भूतः। स प्राणः क्रियाभेदात् स्थानभेदाच्च पञ्चविधः। यस्य हृदयं स्थानम्, क्षुत्पिपासे क्रिया स प्राणः। यस्य गुदः स्थानम्, मूत्रपुरीषयोरधोनयनं क्रिया स अपानः। यस्य नाभिः स्थानम्, भुक्तपीतयोरन्नपानयोः पाचनयोग्यसमीकरणं क्रिया स समानः। यस्य कण्ठः स्थानम्, श्वासः क्रिया स उदानः। यस्य सर्वशरीरं स्थानम्, अन्नपानादिरसस्य सर्वनाडीषु प्रवेशनं क्रिया स व्यानः। पञ्च वायवोऽधिकतया

क्वचित् नागकूर्मकृकरदेवदत्तधनञ्जयाख्याः पठ्यन्ते। तत्रोद्वमनकृत् नागः। उन्मीलनहिक्कादिकृत् कूर्मः। क्षुतहेतुः कृकरः। जृम्भणकरो देवदत्तः। श्वयथुकरो धनञ्जयः। एत उपवायवः। तेषां च पृथिवीजलतेजोवाय्वाकाशानां रजोगुणांशेभ्यः क्रमेणोत्पत्तिः। तथैवापानसमानप्राणोदानव्यानानामपि क्रमेण पृथिव्यादीनामेकैकस्य रजोगुणांशादुत्पत्तिः। सर्वेषां समष्टिरजोगुणांशान्नोत्पत्तिः इति चोक्तं क्वचिद्ग्रन्थेषु।

परन्त्वद्वैतसिद्धान्ते एषा प्रक्रिया नास्ति। विद्यारण्यस्वामिभिः, पञ्चीकरणग्रन्थे वार्तिककारैश्च सूक्ष्मशरीरे पञ्चकोशे च नागकूर्मादीनां ग्रहणं न कृतम्। अपि च तैरपानादिपञ्चप्राणानां पञ्चभूतसमष्टिरजोगुणांशादुत्पत्तिर्वर्णिता। तस्मादेकैकभूतव्यष्टिरजोगुणांशादपानादीनामुत्पत्तिकथनमयुक्तमेव। तस्मात् सूक्ष्मशरीरे नागकूर्मादीनां ग्रहणमसङ्गतम्। पञ्चप्राणानामेव सूक्ष्मशरीरे ग्रहणं युक्तम्। किञ्च प्राणो विक्षेपरूपः। रजोगुणस्य विक्षेपः स्वभावः। तस्मात्पञ्चभूतरजोगुणांशात्प्राणोत्पत्तिकथनं युक्तमेव।