- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २६४-२७२ जगत्सृष्टिवर्णनम्
- २६६-२७० सूक्ष्मसृष्टिनिरूपणम्
आवर्तः २६७ – चतुर्विधभेदसहितान्तःकरणोत्पत्तिः
अपञ्चीकृतपञ्चभूतानां सत्त्वगुणांशसमष्टिः सत्त्वम् इत्यभिधीयमानमन्तःकरणमुत्पादयति। अन्तःकरणं ज्ञानोत्पत्तिहेतुः। ज्ञानोत्पत्तिः सत्त्वगुणादित्यङ्गीकृतम्। “सत्त्वात्सञ्जायते ज्ञानम्” (भ.गी. १४.१७) इति। तस्मादन्तःकरणं भूतानां सत्त्वगुणकार्यम्। तच्चान्तःकरणमपञ्चीकृतपञ्चभूतव्यष्टिसत्त्वगुणकार्यपञ्चज्ञानेन्द्रियाणां स्वस्वविषयग्रहणे सहकारि। तस्मादपि पञ्चभूतसमष्टिसत्त्वगुणकार्यमेवान्तःकरणम्। न वैशेषिकादीनामिवान्तःकरणं नित्यम्। अन्तः देहस्यान्तः स्थित्वा, करणम् = ज्ञानसाधनम् इत्यन्तःकरणम् उच्यते। पञ्चभूतसमष्टिसत्त्वगुणकार्यत्वेनान्तःकरणं सत्त्वम् इत्यपि कीर्त्यते। अन्तःकरणपरिणामस्य वृत्तिरिति संज्ञा। अन्तःकरणस्य वृत्तयश्चतस्रः। तत्र पदार्थस्य स्वरूपनिश्चयात्मिका वृत्तिर्बुद्धिः। सङ्कल्पात्मिका वृत्तिर्मनः। चिन्तनात्मिका वृत्तिश्चित्तम्। ‘अहम्’ इत्यभिमानात्मिका वृत्तिरहङ्कारः।