ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २६४-२७२ जगत्सृष्टिवर्णनम्

- २६४-२७२ सूक्ष्मसृष्टिनिरूपणम्

आवर्तः २६६ – सूक्ष्मपञ्चभूतानां तद्गुणानां चोत्पत्तिः

एतादृशेश्वरेच्छावशात् माया *१ तमोगुणप्रधाना भवति तादृशतमोगुणप्रधानमायासकाशात् आकाशवायुतेजोजलपृथिव्यात्मकपञ्चभूतान्युत्पद्यन्ते।

*१. यथा पुत्रार्थिनी जाया पत्या सङ्गता शुक्ररूपं बीजम्, ततः क्रमेण पुत्ररूपेण परिणतं गर्भं च वहन्ती प्रसवात् पूर्वं सन्ततिलाभनिमित्तेन सदा प्रसन्ना सत्त्वगुणप्रधाना भवति। पश्चात् प्रसवकाले वेदनानिमित्तेन प्रसन्नतायाः तिरोधाने सति शून्यचित्ता तमोगुणप्रधानेव भवति। यथा वा पूर्वं श्वेतवर्णो मेघो वर्षाकाले श्यामो भवति तथा सृष्टेः पूर्वं ब्रह्मप्रतिबिम्बरूपजगद्बीजधारिणी अविद्योपाधिकानन्तजीवसहितप्रपञ्चरूपगर्भधारिणी च शुद्धसत्त्वप्रधाना माया (ईश्वरस्योपाधिः) भवति। पश्चात् सृष्ट्यारम्भकाले सा माया शुद्धसत्त्वस्वरूपतिरोधानेन सृष्टियोग्यतमोगुणप्रधानप्रकृतिरूपा भवति।

तेषु भूतेषु क्रमेण शब्दस्पर्शरूपरसगन्धाख्यपञ्चगुणा वर्तन्ते। मायायाः सकाशाच्छब्दसहित आकाश उत्पन्नः। आकाशाद्वायुः। वायोराकाशकार्यत्वात्कारणगुणेन शब्देन स्वासाधारणगुणस्पर्शेन च द्विगुणो वायुः। वायोरग्निः सम्भूतः कारणाकाशवायुगुणाभ्यां शब्दस्पर्शाभ्यां स्वासाधारणरूपगुणेन च त्रिगुणोऽग्निः। अग्नेरापः सम्भूताः। कारणाकाशवाय्वग्निगुणैः शब्दस्पर्शरूपैः स्वासाधारणरसगुणेन च चतुर्गुणा आपः। अद्भ्यः पृथिवी सम्भुता। कारणाकाशवाय्वन्यगुणैः शब्दस्पर्शरूपरसैः स्वासाधारणगन्धगुणेन च पञ्चगुणा पृथिवी आकाशे प्रतिध्वनिरूपशब्दो वर्तते। वायौ बीसीतिशब्दः, शीतोष्णकठिनानां विलक्षणस्पर्शश्च वर्तते। अग्नौ भुग्भुग्शब्दः, उष्णस्पर्शः, प्रकाशाख्यरूपं च वर्तते। जले चिलिचिलिशब्दः, शीतस्पर्शः, शुक्लरूपम्, मधुररसश्च वर्तते। लवणतिक्ततादिरसास्तु पृथिवीसंबन्धादेव जले विभान्ति। माधुर्यमेव स्वाभाविकरसो जलस्य। स च हरीतक्यामलकादिभक्षणसंस्कृतरसनया जलपानेऽभिव्यज्यते। पृथिव्यां कडकडाशब्दः, अनुष्णाशीतस्पर्शः, शुक्लकृष्णपीतरक्तहरितादिरूपम्, मधुराम्ललवणकटुकषायतिक्ताख्यषड्रसाः, सुगन्धदुर्गन्धरूपद्विविधगन्धश्च वर्तते। इत्थमाकाशे एको गुणः। वायौ द्वौ। अग्नौ त्रयः। जले चत्वारः। पृथिव्यां पञ्चगुणाः। तत्रापि प्रतिभूतं प्रातिस्विकगुणस्त्वेक एव। तदितरगुणाः कारणादनुगताः। सर्वस्य मूलकारणमीश्वरः। ईश्वरे चांशद्वयमस्ति। चैतन्यांशो मायांशश्चेति। सर्वेषु भूतेषु विद्यमानो नामरूपात्मकमिथ्यांशो मायायाः, सत्तास्फुर्तिरूपांशस्तु चैतन्यस्येति ज्ञेयम्।