-
२२६-३१६
पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २६४-२७२ जगत्सृष्टिवर्णनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २६४-२७२ जगत्सृष्टिवर्णनम्
आवर्तः २६५ – जीवभोगार्थमीश्वरस्य जगत्सिसृक्षा
जीवकर्मफलप्रदानाद्यदेश्वरो विमुखो भवति तदा जगत्प्रलयो भवति। प्रलये सर्वपदार्थसंस्कारा मायायां लीना भवन्ति। तस्माज्जीवानां कर्मशेषोऽपि सूक्ष्मरूपेण मायायां निलीनो भवति। यदा प्राणिनां कर्मफलदानाभिमुखो भवतीश्वरस्तदा “जीवानां भोगार्थमहं जगत् सृजे’ इतीश्वरस्येच्छा जायते।