ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्

- २५५-२७२ जगत्सृष्टिवर्णनम्

आवर्तः २६४ – ईश्वरस्य वैषम्यनैर्घृण्याभावः

जीवस्य स्वकर्मानुसारेणोच्चावचभोगानुभवायेश्वरः प्राणिनां पुण्यपापानुरूपां सृष्टिं करोति। तस्मादीश्वरस्य न वैषम्यनैर्घृण्ये स्तः। नन्वाद्यसर्गात् पूर्वं न कर्मास्ति। प्रथमसर्गे चेश्वरः प्राणिनामुच्चनीचशरीराणि उच्चावचभोगांश्च सृ। तस्मादीश्वरो विषमदृष्टिरेवाकस्माद्विषमसृष्टिकरणादिति चेन्न। संसारोऽनादिः। तस्मादुत्तरोत्तरसृष्टेः पूर्वपूर्वसृष्टौ तत्तत्प्राणिकृतं कर्मैव कारणम्। सृष्टेरिदंप्रथमत्वासंभवान्नेश्वरे दोषः।