ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्


आवर्तः २६३ – जीवस्वरूपवर्णनम्

रजस्तमसी अभिभूयोद्भूतो यः सत्त्वगुणः स शुद्धसत्त्वगुण इत्यभिधीयते। रजस्तमोभ्यामभिभूतो यः सत्त्वगुणः स मलिनसत्त्वगुण इति कीर्त्यते। ईदृशमलिनसत्त्वगुणसहिताज्ञानांशप्रतिफलितचिदाभासः, अज्ञानं, अज्ञानाधिष्ठानकूटस्थचैतन्यं चेति त्रयं मिलित्वा जीव इति वर्ण्यते। सोऽयं जीवः कर्म करोति। तत्फलं चेच्छति।