- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २६१-२६२ प्रसङ्गादीश्वरस्वरूपवर्णनम्
आवर्तः २६२ – ईश्वर एव प्रपञ्चस्योपादानकारणं निमित्तकारणं च
ईश्वर एव जगत *१ उपादानकारणं निमित्तकारणं च भवति। यथैक एव लूताकीटस्तन्तुरूपकार्यं प्रत्युपादानकारणं निमित्तकारणं च भवति। तद्वदेवेश्वरः प्रपञ्चं प्रत्युपादानं निमित्तं च। तत्र लूताकीटस्य जडं शरीरं तन्तोरुपादानकारणम्, तच्छरीरस्थमन्तःकरणसहितचैतन्यं निमित्तकारणम्। एवमेवेश्वरशरीरभूतजडमाया जगत उपादानम्, चेतनभागो निमित्तकारणम्। इत्थमेकस्यैवेश्वरस्य प्रपञ्चं *२ प्रत्युपादाननिमित्तोभयकारणत्वे लूताकीटो दृष्टान्तः। मुख्यदृष्टान्तस्तु स्वप्न एव।
*१. न्यायमते घटेनेश्वरस्य संयोगे ईश्वरस्याभिन्ननिमित्तोपादानत्वमुक्तम्। तथा जीवाश्रितज्ञानसुखादिगुणानां जीवस्याभिन्ननिमित्तोपादानत्वमभिमतम्।
किञ्च यथास्मन्मते जीवस्य स्वप्नप्रपञ्चं प्रत्यभिन्ननिमित्तोपादानत्वमिष्टं तथेश्वरस्य जाग्रत्प्रपञ्चं प्रत्यभिन्ननिमित्तोपादानत्वं भवति।
*२. ननु दुःखतत्साधनपरिहारे वा सुखतत्साधनसम्पादाने वेच्छा दृष्टा। ईश्वरस्य तु दुःखतत्साधनयोरभावान्न तन्निवृत्तीच्छासंभवः। पर्याप्तकामत्वादीश्वरस्य नापि सुखतत्साधनसम्पादनेच्छा। अत ईश्वरस्येच्छा न कुत्रचिदपि युज्यते। बालानामकस्मादेव क्रीडायामिच्छावदीश्वरस्यापि जगत्सृष्टिरूपविनोदेच्छा निमित्तं विनैव भवतीत्यपि न।
यथा बालानां चित्ते आह्लादरूपसुखप्राप्तिनिमित्तकेच्छा भवति तथा पूर्णकामस्येश्वरस्याह्लादरूपसुखप्राप्तीच्छा न संभवतीति चेन्न। यथा कल्पवृक्षादिः स्वाश्रितपुरुषसङ्कल्परूपनिमित्तेन स्वस्वभावादेवाश्रितपुरुषमनोरथं पूरयति, तथेश्वरोऽपि प्राणिनां फलदानोन्मुखो यदा भवति तदा जीवादृष्टरूपनिमित्तेनैव स्वस्वभावादेव जगत्सृष्ट्यादिविषयकज्ञानेच्छाप्रयत्नादिकं करोति। ईश्वरीयेच्छाज्ञानप्रयत्नमध्ये एकैकापि व्यक्तिः सृष्ट्यारम्भकाले उत्पन्ना प्रलयपर्यन्तं तिष्ठति। तस्मादीश्वरेच्छाप्रयत्ना नित्या उच्यन्ते। किञ्चेश्वरीयेच्छादयो भूतभविष्यद्वर्तमानकालगतसकलपदार्थान् विषयीकरोति। अत एव सदा सृष्टिः प्रलयो वा, सदा शैत्यमौष्णं वा, सदा वृष्टिरवग्रहो वा न संभवति। किन्तु समयानुसारेणैव भवन्ति।
यदा पुनरीश्वरो जीवानां कर्मफलदानाय न सम्मुखो भवति तदा जगतः प्रलयः, यदा च स ईश्वरो जीवानां कर्मफलदानायाभिमुखो भवति तदा जगतः सृष्टिश्च भवति। इत्थं जगत्सृष्टेर्जीवकर्माधीनत्वाज्जीवस्वरूपमिदानीं निरूप्यते।