- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २५५-२७२ प्रसङ्गादीश्वरस्वरूपवर्णनम्
आवर्तः २६१ – ईश्वरस्वरूपम्; द्विविधकारणलक्षणं च
शुद्धसत्त्वगुणसहिता माया, मायाधिष्ठानं चैतन्यम्, मायाप्रतिफलितचैतन्याभास इति त्रयं मिलित्वा ईश्वर इत्यभिधीयते। सोऽयमीश्वरः सर्वज्ञः। स एव जगतः कारणम्।
कारणं द्विविधम् – उपादानकारणम्, निमित्तकारणं चेति। *१ यत् कार्यस्वरूपे प्रविशति, यद्विना कार्यस्य स्थितिर्नास्ति, तदुपादानकारणम् उच्यते। यथा मृद्घटस्योपादानकारणम्। घटस्वरूपे मृदः प्रवेशोऽस्ति, मृदं विना घटो न स्थितिं लभते च। *२ यत् कार्यस्वरूपे न प्रविशति, किन्तु कार्यात् पृथक् स्थितं सत् कार्यमुत्पादयति, यस्य नाशेन कार्यं न नश्यति तन्निमित्तकारणम् इत्यभिधीयते। यथा घटस्य कुलालो दण्डचक्रादयश्च निमित्तकारणानि। न कुलालादयो घटस्वरूपे प्रविशन्ति; घटात्पृथग्भूता घटमुत्पादयन्ति; घटो त्पत्त्यनन्तरं कुलालादीनां नाशेऽपि घटो न नश्यति। इत्थम् उपादानं निमित्तम् इति च कारणं द्विविधम्।
*१. कार्योत्पत्तिस्थितिलयकारणत्वमुपादानकारणस्य लक्षणम्।
जगदुत्पत्तिविषये आरम्भपरिणामविवर्तवादानां मध्ये विवर्तवाद एव श्रेयानिति विचारतः सिद्ध्यति। तथा हि –
(१) सावयवैरनेकैः कारणद्रव्यैः संयोगसचिवैरेकमवयवि कार्यमुत्पद्यत इत्यारम्भवादः। यथा अनेकैस्तन्तुभिः संयोगसचिवैरेकं पटरूपकार्यमुत्पद्यत इत्यारम्भवादः अत्र मते कार्यकारणयोरत्यन्तभेदोऽभ्युपगम्यते। जगदुत्पत्तिविषये आरम्भवादो न संभवति। अद्वितीयब्रह्मणोऽपरिच्छिन्नत्वेन निरवयवत्वान्न ततः सावयवं जगत्पृथग्जायेत।
(२) परिणामवादोऽपि न प्रपञ्चोत्पत्तिविषये युज्यते। कारणवस्तुनः प्राक्सिद्धकारणावस्थापरित्यागपूर्वकावस्थान्तरप्राप्तिः परिणामः ‘ यथा मृत्परिणामो घट इति प्रधानपरिणामो जगदिति च साङ्ख्या वदन्ति। ब्रह्मपरिणामो जगदिति केचनोपासका मन्यन्ते। तदुभयं सूत्रभाष्यकारादिभिः खण्डितम्। चैतन्यस्याकाशादपि सूक्ष्मत्वेन निरवयवत्वादेवोपासकमतमत्यन्तमसङ्गतमेव। इत्थं परिणामवादोऽपि न युज्यतेऽत्र।
(३) विवर्तवादे तु पूर्वोक्तदोषलेशोऽपि न संभवति। कारणवस्तुनो नित्यसिद्धस्वस्वरूपापरित्यागेनैवान्यथा भानमात्रं विवर्त इति श्रुतियुक्त्यनुभवसिद्धम्। यथा शुक्त्यादौ रजतावभासः। अयमेव पक्षो वेदान्ताभिमतः। अत्र जगद्विवर्तोपादानरूपाधिष्ठानं मायोपहितचैतन्यमेव। न मायाविशिष्टम्। अविवेकिनस्तथा कथयन्ति। परिणाम्युपादानं माया, विवर्तोपादानमुपहितचैतन्यमिति विवेके सिद्धेऽपि तदुभयं मायाविशिष्टचैतन्यमिति वदन्ति विवेचनाकुशलाः।
*२. कार्योत्पत्तिमात्रकारणत्वं निमित्तकारणस्य लक्षणम्। तच्च निमित्तकारणमनेकविधम्।