ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २५५-२६० प्रसङ्गान्मायास्वरूपप्रतिपादनम्


आवर्तः २६० – एकाज्ञानपक्षे बन्धमोक्षव्यवस्था; एकाज्ञानपक्षस्य ज्यायस्त्वम्; नामभेदेन मायास्वरूपं च

तच्चाज्ञानमेकमेव। ज्ञानेन तदज्ञानं निवर्त्यते। परन्तु यस्मिन् अन्तःकरणे ज्ञानमुदेति तादृशान्तःकरणावच्छिन्नचैतन्यनिष्ठाज्ञानांशस्तेन ज्ञानेन निवर्त्यते। स एव मुक्तो भवति। यस्मिन् अन्तःकरणे ज्ञानं नोदेति तत्राज्ञानांशो बन्धश्च तथैवावतिष्ठते। अनेन प्रकारेणाज्ञानस्य *१ एकत्वपक्षे बन्धमोक्षव्यवहारसिद्धिः।

*१. अत्रायमभिप्रायः – अंशिरूपान्धकारस्यैकत्वेऽपि अंशभूता नानान्धकाराः प्रतिगृहं वर्तन्ते। यस्मिन् गेहे दीपोऽस्ति तत्रस्थोंऽशभूतोऽन्धकारो विनश्यति। न गेहान्तरस्थान्धकारांशस्य नाशः। एवमेवांशिभूतमज्ञानमेकमेव। तस्यांशभूतनानाज्ञानानि नानान्तःकरणप्रदेशस्थसाक्षिचैतन्यमाश्रित्य तिष्ठन्ति। यस्मिन्नन्तःकरणप्रदेशे वृत्तिज्ञानमुदेति तादृशान्तःकरणप्रदेशस्थाज्ञानांशो विनश्यति। स एव मुक्तो भवति, नेतरे। तस्मादेकस्य ज्ञानोदये सति सर्वेषामप्यज्ञानतत्कार्यनाशद्वारा मुक्त्यापत्तिर्न कार्या। इत्थमेकाज्ञानाङ्गीकारपक्षे बन्धमोक्षव्यवस्थासिद्धिः।

किञ्च ‘जीवाज्ञानकल्पित ईश्वरोऽनन्तः, जीवभेदेन सृष्टिरपि नाना’ इति श्रुतिस्मृतिपुराणादिविरुद्धपक्षो न युक्तः। अत एकाज्ञानपक्षो ज्यायान्।

यदि वाचस्पतिमिश्रमतानुसारेण केषाञ्चिन्नानाज्ञानपक्षो मनसि प्रविशति तदा सोऽपि पक्षोऽद्वैतज्ञानोपाय एव। न तन्मतखण्डने आग्रहः कार्यः। *२ यया प्रक्रियया जिज्ञासोरद्वैतबोधो भवति तस्यां प्रक्रियायां तस्य बुद्धिः स्थिरीकर्तव्या।

*२. यया यया भवेत् पुंसां व्युत्पत्तिः प्रत्यगात्मनि।
सा सैव प्रक्रियेह स्यात् साध्वी सा चानवस्थिता॥ (बृ. भा. वा. १.४.४०२)

इति नैष्कर्म्यसिद्धिकारा आहुः।

शुद्धब्रह्माश्रितां मायां अविद्येति अज्ञानमिति चाहुः। अचिन्त्यानन्तशक्तिमत्त्वाद्युक्तीनामविषयत्वाच्च माया इति व्यपदेशः। विद्यानाश्यत्वाद् अविद्या इति वर्ण्यते। स्वरूपावारकत्वाद् अज्ञानं इति च भण्यते। मायाया आश्रयभूतं चैतन्यं सामान्यचैतन्यम्। न तन्मायाया विरोधि, किन्तु साधकम्। मायायाः सत्ताप्रदं स्फुरणप्रदं च। वृत्त्यारूढं चैतन्यमथवा चैतन्यसहितां वृत्तिं मायाया विरोधितया जानीयात्। अत्र सूर्यकान्तशिलारूढसूर्यप्रभा दृष्टान्तत्वेनावगन्तव्या। इत्थमेका अनादिः सान्ता सदसद्विलक्षणानिर्वचनीया अविद्याज्ञानादिशब्दव्यपदेश्या सामान्यचैतन्यमाश्रिता वृत्त्यारूढचैतन्यविनाश्या च माया वर्णिता।