- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २५५-२६० प्रसङ्गान्मायास्वरूपप्रतिपादनम्
आवर्तः २५९ – अज्ञानस्य स्वाश्रयस्वविषयकत्वपक्षाङ्गीकारः
तदिदमेकमज्ञानं न जीवाश्रितम्, किन्तु शुद्धब्रह्माश्रितमेव। जीवभावश्चाज्ञानकार्यम्। तच्चाज्ञानं न कदाचिदपि स्वतन्त्रं तिष्ठति। तस्मान्निराश्रयाज्ञानेन न जीवभावः सिद्ध्येत्। यद्यज्ञानं प्रथमं यत्किञ्चिदाश्रयमाश्रित्य तिष्ठेत्तदा तत्कार्यजीवभावः सिद्ध्येत्। जीवभाव इवेश्वरभावोऽप्यज्ञानकार्यमेव। तस्मादज्ञानं नेश्वराश्रितमपि। परिशेषादिदमनाद्यज्ञानं शुद्धब्रह्माश्रितं भवति। अनादिचैतन्याज्ञानयोः संबन्धः (कालः) अप्यनादिरेव। चैतन्याज्ञानयोरनादिसंबन्धाधीनजीवेश्वरभावोऽप्यनादिरेव। परन्तु जीवेश्वरभावयोरज्ञानाधीनत्वात् जीवेश्वरयोः अज्ञानकार्यत्वव्यपदेशः।
‘अहमज्ञः’ इति जीवाश्रितत्वेन यद्यप्यज्ञानमापाततः प्रतीयते, तथापि शुद्धब्रह्माश्रितेऽज्ञाने जीवस्य योऽभिमानः स एवार्थोऽनेन वाक्येनाभिलप्यते इति परमार्थः। अज्ञानकार्यत्वाज्जीवस्य न तस्याज्ञानाधिष्ठानत्वरूपमाश्रयत्वं युज्यते। किन्तु शुद्धब्रह्मैवाज्ञानास्य अधिष्ठानरूपाश्रयः। ‘अहमज्ञः ‘ इति तु प्रतीतिर्जीवस्याज्ञानाभिमानित्वरूपमाश्रयत्वं विषयीकरोति।
शुद्धब्रह्मरूपाधिष्ठानाश्रितमज्ञानं स्वाश्रयं ब्रह्मैवावृणोति। तदनन्तरं जीवः ‘अहमज्ञोऽस्मि’ इत्येवमज्ञानस्य *१ अभिमानिरूपाश्रयो भवति। अ प्रकारेणाज्ञानं स्वाश्रयविषयकमिति सिद्धम्।
*१. ‘अहमज्ञः’ इत्यनुभवबलादज्ञानस्याश्रयो जीव इति वाचस्पतिमिश्रा आहुः। अयं पक्षों मुमुक्षुबुद्धौ सुखं प्रविशेदिति तैस्तथा वर्णितम्। वस्तुतस्तेषामेवमाशयः अहंशब्दस्य वाच्यार्थोऽन्तःकरणविशिष्टचैतन्यरूपो जीवः। तत्र विशेष्यांशभूतसाक्षिचैतन्यमेव ब्रह्म। तच्च ब्रह्माज्ञानस्याश्रयः। विशेष्यधर्मस्य विशिष्टे व्यवहार इति न्यायेन जीवस्याज्ञानाश्रयत्वव्यपदेशः कृतः।