ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २५५-२६० प्रसङ्गान्मायास्वरूपप्रतिपादनम्


आवर्तः २५८ – वाचस्पतिमतासाङ्गत्यम्; अज्ञानैकत्वं च

ईश्वरो जीवाज्ञानकल्पित इत्युक्तिः श्रुतिस्मृतिपुराणविरुद्धा। ‘ईश्वरा अनन्ताः, प्रतिजीवं सृष्टिर्भिन्ना’ इत्यपि प्रमाणविरुद्धम्। तस्मादज्ञानस्य नानात्वमाश्रित्य ईश्वरस्य सृष्टेश्चैकत्वाभ्युपगमोऽपि न सङ्गच्छते। तथा हि जीवेश्वरप्रपञ्चा अज्ञानकल्पिताः। अज्ञानस्य नानात्वे एकैकाज्ञानकल्पितजीववदीश्वरप्रपञ्चानामप्यानन्त्यं प्रसज्येतैव। अत एव वाचस्पतिमिश्रैरनन्तेश्वरानन्तसृष्टय उक्ताः। तस्मादज्ञानमेकमिति मतमेव ज्यायः।