- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २५५-२६० प्रसङ्गान्मायास्वरूपप्रतिपादनम्
आवर्तः २५७ – उक्तार्थे वाचस्पतिमतम्
अज्ञानं जीवमाश्रित्य स्थित्वा ब्रह्म विषयीकरोति। ‘अहमज्ञो ब्रह्म न जानामि’ इत्यनुभवे ‘अहम्’ इति शब्दार्थो जीवः ‘अज्ञः’ इत्यज्ञानाश्रयत्वेन प्रतीयते। तस्माज्जीवस्याज्ञानाश्रयत्वं व्यक्तीभवति। ‘ब्रह्म न जानामि’ इति शब्दैरज्ञानस्य विषयो ब्रह्मेति सिद्ध्यति। तथा चाज्ञानं जीवाश्रितं स विषयीकरोति आवृणोतीति सिद्धम्।
तच्चाज्ञानं नैकम्, किन्तु नाना। अज्ञानस्यैकत्वे एकस्य ज्ञानोदयेनाज्ञाने नष्टे इतरेषामप्यज्ञानं तत्कार्यसंसारो वा न प्रतीयेत; प्रतीयते तु। अद्यावधि न कस्यचिदपि ज्ञानं नोदितमित्यभ्युपगमे इतः परमपि न कस्यचिदपि ज्ञानं जायेत। श्रवणादिसाधनानामानर्थक्यप्रसङ्गश्च स्यात्। तस्मादनन्तजीवाश्रितान्यज्ञानान्यनन्तानि। अनन्तजीवानामनन्ताज्ञानैः कल्पिता ईश्वरा अपि अनन्ताः। तथा ब्रह्माण्डान्यप्यनन्तानि। यस्य जीवस्य ज्ञानमुदेति तस्याज्ञानं तदज्ञानकल्पितेश्वरब्रह्माण्डानि च नश्यन्ति। यस्य ज्ञानं नोदितं तस्य बन्धोऽनुवर्तत एव।