-
२२६-३१६
पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २५५-२६० प्रसङ्गान्मायास्वरूपप्रतिपादनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्
- २५५-२७२ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २५५-२६० प्रसङ्गान्मायास्वरूपप्रतिपादनम्
आवर्तः २५६ – अज्ञानस्य स्वाश्रयनिषयकत्वम्
जीवेश्वरविभागशून्यशुद्धब्रह्माश्रिता माया शुद्धं ब्रह्मैवावृणोति, गृहाश्रितं तमो यथा गृहमेवावृणोति, तद्वत्। अयमेव स्वाश्रयस्वविषयकत्वपक्ष इत्युच्यते। स्वशब्देन शुद्धं ब्रह्मोच्यते। तदेव ब्रह्माज्ञानस्याश्रयो भवति, तदेव ब्रह्माज्ञानेनाव्रियते च। तस्मादज्ञानं स्वाश्रयस्वविषयकम् इत्युच्यते। विषयत्वम् = आवृतत्वम्। सङ्क्षेपशारीरकविवरणवेदान्तमुक्तावल्यद्वैतसिद्ध्यद्वैतदीपिकादिग्रन्थेषु अज्ञानं स्वाश्रयविषयकम् इति वर्णितम्।