ॐ गुरुपरमात्मने नमः

- २२६-३१६ पञ्चमतरङ्गः -- मध्यमाधिकारिणः साधनवर्णनम्
- २५२-२८३ संसारविषयकविचारः
- २५३-२८३ पूर्वप्रश्नस्य गुरोरुत्तरम्

- २५३-२८३ श्रुत्युक्तोत्पत्तिक्रमनिरूपणम्
- २५३-२८३ प्रसङ्गान्मायास्वरूपप्रतिपादनम्

आवर्तः २५५ – मायास्वरूपम्

जीवेश्वरादिविभागशून्यशुद्धचैतन्याश्रिता माया। इयमुत्पत्तिरहितत्वादनादिः। तस्या उत्पत्त्यङ्गीकारे पुत्रात् पितुरुत्पत्तिकथनस्येव मायाकार्यात् प्रपञ्चान्मायोत्पत्तिकथनमसङ्गतं भवेत्। तस्माच्चैतन्यान्मायोत्पत्तिर्वक्तव्या। तथा सति जीवत्वेश्वरत्वयोर्मायाकार्यत्वान्न जीवचेतनान्न वेश्वरचेतनान्मायोत्पत्तिर्भवेत्। जीवेश्वरसिद्धौ तत्सकाशान्मायोत्पत्तिर्मायासिद्धौ जीवेश्वरसिद्धिरित्यन्योन्याश्रयप्रसङ्गात्। शुद्धचैतन्यं त्वसङ्गमक्रियमविकारि च। तस्मान्मायोत्पत्त्यङ्गीकारे शुद्धचैतन्यं विकारि भवेत्। किञ्च यदि शुद्धचैतन्यान्मायोत्पत्तिरुच्यते तर्हि मोक्षदशायां शुद्धचैतन्यस्य सत्त्वात् पुनर्मायोत्पत्तिप्रसङ्गः स्यात्। मोक्षसाधनवैयर्थ्यं च स्यात्। तस्मान्मायोत्पत्तिरहिता; अत एव च अनादिः। सा चैकैव। ज्ञाननाश्यत्वात् सान्ता च।

māyā has it’s āśraya (locus) in the pure consciousness that is devoid of differences such as jīva and īśvara. Since māyā has no production, it is beginingless. If we were to say that it is produced, it will be illogical like saying that the son produces the father. māyā cannot be produced from creation … it is illogical.

Then we would have to say that māyā is produced from caitanya. But, if we accept this, since both jīvatva and īśvaratva are produced from māyā, māyā cannot be produced from the jīva-caitanya or the īśvara-caitanya. If we accept otherwise, jīva and īśvara would have to be present to produce māyā; and māyā would have to be present to accept jīva and īśvara. This is anyonyāśra doṣa (error of mutual dependence). Pure consciousness is asaṅga, akriya and avikāri (has no attachment, is devoid of action, and has no modification). If māyā is produced from caitanya, then caitanya would be subject to modification. In addition, if māyā arises from pure consciousness, then even in the condition of mokṣa, māyā could once again arise. The entire mokṣa śāstra would be meaningless. Thus, māyā is devoid of production …. it is beginingless. It is singular. And as it is sublated by knowledge, it has an end.

सेयं माया सदसद्विलक्षणा। त्रिकालाबाध्यं यत्तत् सद् इत्युच्यते। त्रिकालाबाध्यत्वाच्चैतन्यमेव सत्। माया तु ज्ञानबाध्यत्वात् सद्विलक्षणा। कालत्रयेऽप्यप्रतीयमानं शशशृङ्गवन्ध्यासुताकाशपद्मादिकम् असद् इत्युच्यते।

ज्ञानात् पूर्वं माया तत्कार्यं च प्रतीयते। तथा हि, जाग्रत्काले ‘अहमज्ञो ब्रह्म न जानामि’ इत्यनुभूयते माया। स्वप्नकाले प्रतीयमानसर्वपदार्थानामुपादानकारणतया मायैव विभाति। सुप्तोत्थितस्य ‘सुखमहमस्वाप्यं न किञ्चिदवेदिषम्´ इति परामर्शः (स्मृतिः) भवति। सा च स्मृतिरननुभूतेऽर्थे न संभवेत्। तस्मात् सुषुप्तावज्ञानानुभवोऽस्ति। अज्ञानं मायेति चैकमेव वस्तूच्यते। इत्थमवस्थात्रयेऽपि माया प्रतीयते। अतः सा असद्विलक्षणा। सदसद्विलक्षणमायाकार्यं जगदपि सदसद्विलक्षणमेव। अद्वैतमते सदसद्विलक्षणमेव वस्तु मिथ्येति, अनिर्वचनीयमिति च कथ्यते। तस्मान्मायातत्कार्याभ्यां न द्वैतं सिद्ध्येत्। मायातत्कार्ययोः सदसद्विलक्षणत्वान्मिथ्यात्वमेव। न हि मिथ्यापदार्थेन द्वैतसिद्धिर्भवति, स्वप्ने दृष्टपदार्थेन यथा न द्वैतसिद्धिस्तथा मिथ्यामायातत्कार्याभ्यां न ब्रह्मणः सद्वितीयत्वसिद्धिः।

This māyā is neither ‘sat’ nor ‘asat’. The permanent is that which is not negated in any of the three time periods. Only consciousness fits this definition and is sat. Since māyā is sublated, it is different from sat. That which is not perceived at any time – such as the rabbit’s horn, barren woman’s son and flower in the sky – is asat.

But māyā and it’s effects are perceived before jñāna. In the waking state, we say “I am ignorant and don’t know brahman”. In this way, we experience māyā. In the dream state, the upādāna kāraṇa (material cause) for everything that we experience is māyā. On waking from deep sleep, we say “I slept soundly and did not know anything”. This memory of something not experienced would not be possible. Thus, even in suṣupti, ajñāna is experienced. The same entity (vastu) is called ajñāna or māyā. Thus, in all three avasthās, māyā is experienced. As such, it is not asat. The world (jagat) which is a product of māyā, and is different from both sad and sat is itself different from sat and asat.

In advaita, the vastu which is neither sat nor asat is called mithyā, or anirvacanīya. Thus, māyā or it’s effects don’t result in a second entity. māyā and it’s effects are different from sat and asat – thus it is all mithyā. No mithyā entity results in dvaita – just as an entity perceived in dreams does not result in dvaita. In the same way, through māyā and it’s effects that are mithyā, a second entity apart from brahman does not arise.